पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४२३ ऽर्थः, तस्य च निषेधः, तस्याप्यसत्यत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन नात्र निषेधविधिः । न वा विहितनिषेधः । अपि तु निषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थादाक्षेपः । स च प्रागुक्तदिशा चतुर्विधः । विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनिष्टोऽर्थः, तस्य विधिः, तस्याप्याभासत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते ।" इत्याहुः । एतेषां मते चेत्थमुदाहरणं निर्माणीयम्- 'न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम् । रणसीम्नि तवावलोकने तरुणार्को दिनकौशिकायते ॥' 'मां पाहीति विधिर्विधेयविषयो वाच्यः स्वतन्त्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गीः श्लाघ्या न संख्यावताम् । एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि ब्रूमहे ॥ 'रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अलमथवा पापात्मन्कृतया कथयापि ते हतया ।।' 'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ॥' तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिथ्यावादित्वनिषेधात्मना पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूपं विशेष व्यनक्ति । एवं द्वितीयपद्ये रक्षणदानयोः कथनस्येष्टत्वान्निषेधो बाधितस्तयोविवक्षितत्वे पर्यवस्यन्नवश्यानुष्ठेयताम् । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्यरूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमानस्तस्य चिन्तितदुःखप्रदताम् । चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयः संस्तस्या मुखादनिःसरणीयताम् । एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेधः, नापि निषेधविधिः ।