पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४२१ - अथाक्षेप:- 'उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमानकैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेपः । इति केचिदाहुः । तन्मते चेत्थमुदाहरणं निर्माणीयम्- 'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ यथा वा- 'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे । चिन्तामणिकल्पद्रुमकामगवीभिः कृतं जगति ॥ आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्, द्वितीये त्वार्थमिति भेदः । अपरे तु-

'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः ।' इत्याहुः । तेषां मते इदमुदाहरणीयम्- 'सुराणामारामादिह झगिति झञ्झानिलहताः पतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः । किमेभिर्वा कार्य शिव शिव विवेकेन विकलै- श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥' अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्रं पक्षान्तरालम्बनेन क्रियते । यथा वा- 'किं निःशङ्कं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे ॥' यितवीरत्वेन प्रसिद्धहनुमतो निन्दा स्वात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यवस्यति । इतरस्तुतेर्बलादाक्षिप्तत्वान्न ध्वनित्वमिति दिक् ॥ इति रसगङ्गाधरमर्मप्र- काशे व्याजस्तुतिप्रकरणम् ।। शिष्यावधानाय प्रतिजानीते-अथेति। उपमेयस्योपमेति । अमुमाक्षेपं प्रतीपं