पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१० काव्यमाला। केषामरिक्षितिभृतां नवराज्यलक्ष्मीः स्वामिव्रतात्वमपरिस्खलितं बभार ॥ अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितोऽर्थो न तादूप्येणाभिहितः, अपि तु स्खलितपातिव्रत्या बभूवेत्याकारेण । यथा वा- 'सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः । अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम् ।।' अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्याकारेण च निरूपितः । 'अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता। तेन पर्यायेण भङ्गयन्तरेणोक्तमभिहितं व्यङ्गयं यत्रेति प्राचीनैनिर्मितं लक्षणं व्यङ्गयत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशङ्कनीयम् । एकस्यैव प्रकारभेदेन वाच्यत्वव्यङ्गयत्वयोरविरोधात् । यथा यावकमहारजनदाडिमीजपाकुसुमादिरूपाणां रक्तवादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्, एवमिहापि' इति मम्मटभट्टाः । अलंकारसर्वस्वकारस्तु-गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् । गम्यस्यैव सतः कथमभिधानमिति चेत्, कार्यादिद्वारेण' इत्याह । तस्यायमाशयः- 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥' इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यङ्ग्यं राहुवधूजनसंबन्धि- चुम्बनमात्रावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्यस्यापि विवेचने क्रियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः स्वसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति । भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिहितत्वाच्च न व्यङ्ग्यत्वम् । एवम्- 'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥'