पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। नार्थान्तरस्यति विशेषात् । यत्र तु श्लेषादिना विशेषणसाम्यं तत्र तन्माहात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्, इहापि वाच्यव्यवहाराभिन्नतयैव च प्रस्तुतव्यवहारप्रत्यय इत्यवैलक्षण्यमेवेति सत्यम् । 'यस्मिन्खेलति', 'दिगन्ते श्रूयन्ते' इत्यादौ वाच्यार्थताटस्थ्येनैव व्यङ्ग्यस्य प्रतीते: सर्वहृदयसंमतत्वात् । क्वचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते । न तावता सर्वत्राभेदेन प्रतीतिः । किं चाप्रस्तुतप्रशंसायां प्रस्तुतं व्यङ्ग्यमिति निर्विवादम् । निगीर्याध्यवसाने तु लक्ष्यं स्यात् । अपि च यत्र वाच्यस्यात्यन्ताप्रस्तुतत्वं तत्राभिधाया अपर्यवसानात्स्यादपि कदाचिल्लक्षणाया अवकाशः । यदा तु द्वयोरप्यर्थयोः प्रागुक्तदिशा प्रस्तुतत्वं तदा तु बाधलेशास्फुरणालक्षणागन्धोऽपि नास्ति । कुतः पुनर्निगरणं लक्षणैकदेशः । किं त्वागूरणमेवेति । तत्राप्रस्तुतप्रशंसायाः सादृश्यमूलाया आवश्यकत्वादन्यत्रापि तज्जातीयस्थले सैवोचिता । यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात् ध्वनेश्चालंकार्यस्यालंकारत्वानुपपत्तिरिति सूक्ष्ममीक्ष्यते तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदन्ति । इति रसगङ्गाधरेऽप्रस्तुतप्रशंसाप्रकरणम् । अथ पर्यायोक्तम्- विवक्षितस्यार्थस्य भङ्गयन्तरेण प्रतिपादनं पर्यायोक्तम् । येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गयन्तरम् । आक्षेपो वा । यथा- 'त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व- निर्वासनैकचतुरं समरे निरीक्ष्य । भेदान्तरमेवेति । सादृश्यमूलातिरिक्तभेदा एवेत्यर्थः । वस्तुतस्तु प्रागुक्तमेवेतीदमयुक्तमित्यरुचिर्वदन्तीत्यनेन सूचिता ॥ इति रसगङ्गाधरमर्मप्रकाशेऽप्रस्तुतप्रशंसाप्रकरणम् ॥ विवक्षितार्थस्य भङ्गयन्तरेणेति । केनचिद्रूपेण व्यञ्जनया लभ्यस्यार्थस्य ततोऽपि चारुतररूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमित्यर्थः । मम्मटमतमाह-अ- ५२