पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४०० काव्यमाला। प्रतिपादनमिति । यच्चाप्युच्यते 'अयमतिजरठाः-इत्यादि समासोक्ताविव गूढश्लेषोऽस्तु' इति, तदपि गर्भस्त्रावेण गलितम् । श्लिष्टविशेषणायां समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्यङ्गयभेदः समासोक्तिः' इत्युक्तम् । 'समासोक्त्या श्लेषो बाध्यते' इत्युद्भटप्रभृतिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । श्लिषशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत् । वयं तू ब्रूमः-अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवो- ऽप्यस्ति । योगरूढिस्थले तु सापि दूरापास्ता । यथा- 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं नु तां हरति ।' अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाश्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तद्रुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणां धनहरणं नेतृ (त्रि)भिश्चौरैः सुशकं न तु गवेषकाणामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जनाव्यापारमुपपादयितुं शक्यते । यतो योगशक्ते रुढ्या दृढनिगडनियन्त्रिताया नास्ति स्वातन्त्र्यम् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदशैवालादिवोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोधस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अत एव च 'ई- शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यञ्जनाया बोधजनकत्वकल्पनापेक्षया क्लृप्तशक्त्तेस्तत्त्वकल्पनमेवोचितम् । लाघवात् । एवं चाश्लिष्टसाधारणविशेषणायां समासोक्तावेव गुणीभूतव्यङ्गयत्वम् , श्लिष्टविशेषणायामप्यारोपांशमादाय तत्त्वमिति दीक्षिताशयः । वस्तुतस्तु द्वितीयार्थस्य व्यङ्गयत्वेऽपि न तमादाय ध्वनित्वमुचितम् । उपमानादिविधया तस्यापि प्रकृतोपस्कारकत्वेन गुणत्वात् । अन्यथा समासोक्तावपि गुणीभूतव्यङ्गयत्वोक्तिरसंगता स्यादित्यलंकारव्यङ्गपत्वमादायैव ध्वनित्वमुक्तमिति बोध्यम् । एतेन यदप्युच्यते अयमतीत्याद्यपास्तमिति बोध्यम् । अपिना साधारणविशेषणसमुच्चयः । एतेन शक्तिनिरासः । अत एव व्यक्त्यैव तदङ्गीकारादेव । तिश्चेति । उक्तमित्यस्यानुषङ्गः। ननु प्रागुक्तरीत्या तत्र श्लेषस्यैवाभावेन कथं बाध्यत इत्युक्तिरत आह-बाधो हीति। तत्र समासोक्तौ । नन्वेवं श्लेष्टेतिशब्दप्रयोगः कथमत आह-श्लिष्टेति ।