पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापहृता प्रकरणादिज्ञानस्य । न च ज्ञानस्याशुविनाशित्वात्तदानीं प्रकरणज्ञानमेव नष्टमिति वाच्यम् । ज्ञानान्तरस्योत्पत्तौ बाधकाभावात् । सैव ज्ञानव्यक्तिः प्रतिबन्धिकेति तु तत्तद्वयक्तिसहस्त्रगतप्रतिबन्धकत्वसहस्त्रकल्पनागौरवग्रस्तमेव । तदपेक्षयान्यत्र क्लृप्तव्यञ्जनाख्यव्यापारस्यैव कल्पयितुं युक्तत्वात् । 'जैमिनीयमलं धत्ते रसनायां महामतिः' इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । यदि तु यथाकथंचिदुपपत्तिः स्यादेवमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तत्स्यालकाद्युपहासवाक्यात्प्रादुर्भावश्च न स्यात् । वक्तृबोद्धव्यादिवैशिष्टयस्य व्यङ्ग्यप्रतिभामात्रहेतुत्वादिति प्राचामाशयः । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या आश्विति । विक्षणावस्थायित्वादिति भावः । ज्ञानमेवेति । एवं चाश्रयस्यैवाभावात्प्रतिबन्धकत्वं दुर्वचमिति भावः । लाघवादाह-तदपेक्षयेति । अन्यत्र गतोऽस्तमर्क इत्यादौ । व्यञ्जनानङ्गीकर्तृमते गौरवाङ्गीकारस्यावश्यकत्वादाह-जैमिनीयेति । बाधितार्थेति । जैमिनीयसंबन्धिविष्ठामितीत्यर्थः । यथाकथंचित् तत्र व्युत्पत्त्यन्तराङ्गीकारादिति भावः । तस्य महामतिर्जिह्वायां जैमिनीयसंबन्धिविष्ठां धत्ते इति बाधितार्थस्य । तत्पुत्रेति । तत्र तु स तस्यां जैमिनीयं शास्त्रं अलमत्यन्तं धत्ते इत्यर्थप्रतीतिरिति भावः । ननु वक्तृबोद्धव्यादिवैशिष्टयात्तथेत्यत आह-वक्रिति । मात्रपदेन शक्यप्रतिभानिरासः । तथा चावश्यकव्यञ्जनयैव तत्प्रतीतिरिति भावः । अत एवाह- तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति।अत्रेदं चिन्त्यम्-तत्र झटितीत्युक्त्या प्राथमिकबोधत्वमेव प्रतिबन्धतावच्छेदकमिति बोधितमित्युक्तमेव । एवं चान्योन्यसंनिधानबलादित्यनेनोक्तार्थकेनेदं बोधितं यत्प्रकृतार्थे नियामकद्वयसत्त्वात्प्रथममुपस्थितिः। द्वितीयेऽपि शब्दान्तरसंनिधिरूपनियामकमात्रसत्त्वेन तस्याप्युपस्थितिः किं तु पश्चादिति । सुरभिमांसं भुङ्क्ते इत्यादेः पुत्रादिप्रयुक्तानाश्लीलबोधः । श्यालकादिप्रयुक्तादेव च तद्बोध इति व्यवस्थापि वक्तृतात्पर्याग्रहतद्बहाभ्यां सूपपादा । यद्वा वक्तृबोधव्यादि वैशिष्टयस्य फलबलेन नियन्त्रितशक्त्युल्लासेऽपि हेतुत्वकल्पनान्न दोषः । एतावान्विशेषः- :-यत्र वक्तृवैशिष्ट्यादिज्ञानं विलम्बेन, प्रकरणज्ञानं च शीघ्रं तत्र वक्तृवैशिष्टयादीनां नियन्त्रितशक्त्युल्लासकत्वम् । यत्र तु युगपदेवोभयं तत्र नियन्त्रणप्रतिबन्धकतोत्तेजकतैव तेषाम् । व्यञ्जनावादिनापि तेषां व्यङ्गयप्रतिभाहेतुत्वमवश्यमङ्गीकार्यमेव । तद्वरं व्यञ्जनामनङ्गीकृत्य तेषां शक्त्युल्लासादिहेतुत्वकल्पनमेव । एवं योगरूढपदानां यत्र योगार्थमात्रघटितार्थान्तरबोधकतेष्टा तत्र तेषां रूढिप्रतिबन्धकतापि स्वीकार्या, उत्तेजकता वा । एतेन वयं तु ब्रूम इत्याद्युक्तिरप्यपास्ता । किं च