पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। "रक्तस्त्वं नवपल्लवैरहमपि श्वाव्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति" इति, तदपि चिन्त्यम् । रत्याद्यनुकूलतया कुतश्चिदङ्गादभूषणापसारणं यथा शोभाविशेषाय भवति एवं प्रकृते उपमालंकारदूरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न मन्यन्ते । अन्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥ अत एव ध्वनिकता सहृदयधुरंधरेण 'सुकविस्तु रसानुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात्' इत्युक्त्वा 'रक्तस्त्वं-' इति पद्यं सादृश्यदूरीकरणे उदाजह्वे । अत एव च मम्मटभट्टैः 'आधिक्य- त्पुंस्त्वमपि । तद्धर्मस्य यौवनधर्मस्य । रक्त इति । सीतापहारोत्तरं श्रीरामस्याशोकतरं प्रतीयमुक्तिः । रक्तो रक्तवर्णः अनुरक्तश्च । शिलीमुखा बाणा भ्रमराश्च । कान्ता- पादेति । कामिनीपादाघातेनाशोकस्य पुष्पोद्गम इति प्रसिद्धिः । नायके तु पद्माख्यबन्धाभिप्रायेण । तदुक्तम् -'धृतैकपादा जघने कुर्वत्यन्यपदाहतिम् । शनैः शनैनिधुवने पद्मबन्धस्तदा मतः ॥' इति । रत्याद्यनुकूलतयेति ।अत्रेदं चिन्त्यम्-उपमानाद्धयुपमेये वर्ण्यमानं वैलक्षण्यमेव गुणाधिक्यकृतं व्यतिरेकः । तच्च क्वचिदुपमेयोत्कर्षपर्यवसायि, क्वचित्तदपकर्षपर्यवसायि, क्वचित्तदनुभयपर्यवसायि । आधिक्यन्यूनत्वशब्दावप्युत्कर्षापकर्षपरावेव । तत्रापकर्षपर्यवसायि रक्तस्त्वमित्यत्र । अत्रोपमेये सशोकत्वादिगम्यचेतनत्वसहृदयत्वादिभिः शोकरहितत्वशोकसहितत्वाभ्यां च तत्तद्गुणाधिक्यप्रतीतावपि शोकस्य स्वरूपेणापकृष्टत्वाद्विरहिवाक्यत्वाच्च वरमचेतनत्वमेव सम्यक् । न पुनः प्रियावियोगादिजन्यशोकास्पदचैतन्यादीति प्रतीतिपर्यवसानात् विरहानुगुणकविनिबद्धतापर्यविषयकोऽपकर्षः पर्यवस्यति । अत एव प्रियावियोगाद्यपि तुल्यमित्यर्थकमावयोः सर्वे तुल्यमिति वाक्यं चरितार्थम् । एतेन रत्याद्यनुकूलेत्यादि उदाजह्वे इत्यन्तमपास्तम् । सशोकत्ववर्णनेऽपि रक्तत्वादिधर्मैः सादृश्यस्य विप्रलम्भपरिपोषकतया चमत्कारिणः सत्त्वेन तदपह्नवस्य कर्तुमशक्यत्वात् । अन्यथा औन्नत्यादिकृतसादृश्यस्यापि