पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। अत्र चालंकारे कस्यचिच्छाब्दसादृश्यनिषेधाक्षिप्तावुपमेयोत्कर्षापमानापकर्षौ, क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्तावुपमानापकर्षसादृश्याभावौ, क्वचित्तादृशेनोपमानापकर्षणाक्षिप्तावुपमेयोत्कर्षतदभावौ तथा । तत्राद्यः प्राचीनरीत्या सभेद उदाहृतः। द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव । तत्र दिङ्मात्रमुदाह्रियते- 'निशाकरादालि कलङ्कपङ्किलाद्गुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यकिरोऽधरादिमा गिरोऽधरा गुप्तरसाः कवीनाम् ॥' अत्र पूर्वार्धे उपमेयोत्कर्षः शाब्दः । उपमानापकर्षसादृश्याभावावाक्षिप्तौ । द्वितीयार्धै उपमानापकर्षः शाब्दः । उपमेयोत्कर्षसादृश्याभावावाक्षिप्तौ । एवं क्वचिद्वयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव हृद्यमिति नोदाहृतम् । क्वचिच्च त्रयमप्याक्षिप्तमेव । यथा- 'अपारे किल संसारे विधिनैकोऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥' 'अशीतलोग्रश्चण्डांशुरनुग्रशिशिरः शशी । उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयोः ॥' यथा वा- 'स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ अत्रोपमानतद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु षेधोत्थापीति । गुणान्तरकृतसादृश्यनिषेधोत्थापीत्यर्थः । अत्र.चालंकारे इति व्यतिरेकालंकार इत्यर्थः । तादृशेन शाब्देन । तदभावौ सादृश्याभावौ । तथा चमत्कृतिजनको । तत्र तेषां मध्ये । तावद्भेदावेव चतुर्विशतिभेदावेव । केषांचिदसंभवादुक्तं प्रायश इति । तत्र तयोर्विषये । आलीति संबोधनम् । नायिकां प्रति वयस्योक्तिः । गुप्तरसाः कवीनामिमा गिरस्ते बहुमाधुर्यवर्षकादधरादधरा अपकृष्टा इत्यर्थः । शाब्द इति । गुणाधिकमित्युक्तेरिति भावः । शाब्द इति । अधरा इत्युक्तेरिति भावः । एवं उक्तप्रकारेण । त्रयमपि उपमेयोत्कर्षापमानापकर्षसादृश्याभावरूपम् । अर्जुनाः श्वेताः । उग्रशीत इति । यथासंख्यमन्वयः । उदाराशयेति संबोधनम् । कुहूरजनी अमारात्रिः । एवव्यावर्त्यमाह-न त्विति । व्यङ्गय इति तु कदापि न भ्रमितव्यमि-