पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५० काव्यमाला। इदं तु बोध्यम्-इहोभयानुपादानभेदत्रयं दुरुपपादम् । वैधर्म्यानुपादाने हि किमाश्रयः श्लेषः स्यात् । न च यत्र द्विजसुरालयमातरिश्वादिशब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापकस्त- त्रैव तदुदाहरणं सूपपादमिति वाच्यम् । तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात् । इत्थं च चतुर्विशतिभेदा इति प्राचामुक्तिर्विपुलोदाहरणाभिज्ञैर्यथाकथंचिदुपपादनीया । किं चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विंशतिभेदगणनया । नन्वस्यालंकारस्य वैधर्म्यमूलस्योपमाप्रतिकूलत्वमेवोचितम्, न तूपमागर्भत्वम् । तस्याः साधर्म्यमूलकत्वात् । अस्य च तन्निषेधरूपेणैव प्रवृत्तेः । न चेष्टापत्तिः । सिद्धान्तभङ्गप्रसङ्गात् । सत्यम् । यद्गुणपुरस्कारेण यस्य यत्सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्गुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठानेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दुरित्वात् । यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितः स्यात् गुणविशेषपुरस्कारोऽनर्थकः स्यात् । धनेनायमस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्वजनीनप्रत्ययात् । एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हतप्रभमिव वन्दीकृतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः । प्राञ्च इत्यनेन सूचितामरुचिमाह-इदं तु बोध्यमिति । इह प्रागुक्तभेदानां मध्ये । नुपादानभेदेति । अनुपादानरूपभेदत्रयमित्यर्थः । तन्निषेधेति । साधर्म्यनिषेधेत्यर्थः । गुणान्तरेण सादृश्यप्रत्ययस्य दुरित्वादिति । अत्रेदं चिन्त्यम्-'कथमिन्दुरिवाननं त्वदीयं' इति पद्ये कलङ्कवत्त्वेन तद्राहित्येन वा सादृश्यं न प्रसिद्धमुपपत्तिविषयो वा । यस्य निषेधै कथंशब्देन प्रतिपादिते गुणान्तरसादृश्यं प्रतीतिपथमवतरेत् । किं त्वन्यधर्मेण प्रसिद्धसादृश्यस्यैवेदशाधिक्यन्यूनत्वप्रतिपादनद्वाराभावः प्रतिपाद्यते । अपकर्षो वा । स चाविशेषात्सर्वधर्मप्रयुक्तस्यैवेति गुणान्तरेण सादृश्यप्रत्यय इति रिक्तं वचः । 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादौ सर्वथैव सादृश्यनिषेधप्रतीतेश्च । तस्माद्ययोरेतादृशन्यूनत्वाधिक्यवर्णनाभावे सादृश्यं पर्यवस्यतीत्येतावतैवोपमागर्भवव्यवहारः सोऽपि 'कुमुदादतिरिच्यते मुखं' इत्यादौ व्यतिरेकस्यालंकारत्वाभावाय । किं च व्यतिरेके गुणान्तरे कथिते गुणान्तरसादृश्यमपि चमत्कारि । यथा देवदत्तेन सदृशो यज्ञदन्तः । धनमस्याधिकमित्यादौ । तत्र विद्यादिकृतसादृश्यस्यापि चमत्कारित्वात् । उत्कटविद्यत्वेन देवदत्तस्य प्रसिद्धत्वात् इति बोध्यम् । गुणान्तरकृतनि-