पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३४७ प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः । साधर्म्यस्यैव प्रत्ययात् । अधिकगुणवत्त्वमात्रम्, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम् । तयोरुपमेयोत्कर्षेापमन्तरेणासुन्दरत्वात् । अत एव न सादृश्याभावमात्रम् । उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् । तस्य च वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात् । उदाहरणम्- 'अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोर्वैधर्म्ययोर्द्वयोरप्युपादानानुपादा- नाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सोऽप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैर्द्वादशविधो भवन्सश्लेषनिःश्लेषत्वाभ्यां चतुर्विशतिप्रकार इति प्राञ्चः। उदाहरणम्- 'कटु जल्पति कश्चिदल्पवेदी यदि चेदीदशमत्र किं विदध्मः । कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ॥' अत्रोभयोरुपादानम् । उपमा च श्रौती । अत्रैव 'कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि' इति कृते, 'द्युतिभेदं खलु यो दधाति उपमेयस्योपमानत्वरूपगुणविशेषवत्वेनोत्कर्षस्य सत्त्वात् । अत आह-वैधर्म्येति । तथा च ततस्तस्य वैधर्म्येणोत्कर्षः स इति लब्धम् । नैवमतिप्रसङ्ग इत्याह-तत्र चेति । प्रतीपादौ चेत्यर्थः । उपमेयस्येति शेषः । मात्रपदेनोत्कर्षव्यावृत्तिः । तयोः अधिकगुणवत्त्वोपमानगतापकर्षयोः । मात्रं न व्यतिरेक इत्यनुषज्यते । अत एवेत्यस्यार्थमाह-उपमानादिति। तत्संभवात् सादृश्याभावसंभवात् । इष्टापत्तावाह--तस्य चेति । वास्तवत्वेनेति । हीनगुणस्योपमेयत्वादिति भावः । विशेषणे तस्य विशेष्वत्वाकरणे । तस्यैव उपमेयोत्कर्षस्यैव । अधिकनिवेशे प्रयोजनाभावादिति भावः । संमदिन इति । सर्वदा नेत्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य रात्रौ निःशोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः । नायकं प्रति तद्वयस्योक्तिः । अत्र सर्वदा सशोभत्वेन हृष्टत्वं वैधर्म्यम् । तत्र रात्रौ तदभाव इति भावः । सोऽपि चतुर्विधोऽपि । कट्विति । नायिकां प्रति नायकोक्तिः । चेच्छब्दः शङ्कायाम् । ईदृशं तवाननमिन्दुतुल्यमित्येवरूपम् । अत्र उक्तभाषणविषये । विदध्मः कुर्मः । स इन्दुः । एतत् आननम् । उभयोः सकलङ्कत्वतद्धी-