पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ काव्यमाला। . इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुत्प्रेक्षाया असंभवे बोधननिदर्शना युक्ता। 'हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिपति प्रकामम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥' यथा वा- व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम् । इदं चापरं बोध्यम्- 'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निष्पनाकरोज्जगत् ॥' अत्र 'भावप्रधानमाख्यातं' इति यास्कोक्तरीत्या क्रियाविशेष्यकबोधवादिनां शाब्द एवाभेदारोपः क्रिययोरिति मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः । निष्पत्राकरणं च सपुङ्खशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम् । इति रसगङ्गाधरे निदर्शनाप्रकरणम् । अथ व्यातिरेक:- उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षो व्यतिरेकः । अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसक्त्या तथोक्तिसंगतिः स्यादिति भावः। क्त्वा- न्तयोरुदाहृते इत्यत्रान्वयः। प्रकाममत्यन्तम् । प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम् । तेन सहेति यावत् । 'कृञो द्वितीय-' इति डाच् । भेदान्तरमाह-इदं चेति । सः क्रिययोरभेदः । पत्रराहित्येति । स्वार्थे ष्यञ् । बहुव्रीहिः। पत्ररहितकरणमित्यर्थः । 'सपत्र--' इति डाच्प्रत्ययः ॥ इति रसगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकरणम् ॥ व्यतिरेकं निरूपयति-अथेति । ननु गुणविशेषवत्त्वेनेत्युक्तावपि तत्रातिप्रसङ्ग एव ।