पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३३५ दूरीकृत्य 'वाचा वाचस्पतेर्व्योम्नि विलसन्ति न वल्लयः' इति क्रियते तदा वैधर्म्यं प्रकृतविपरीतार्थघटनाद्युक्तम् । अथ- 'खलास्तु कुशलाः स्वीयहितप्रत्यूहकर्मणि । निपुणाः फणिनः प्राणानपहर्तु निरागसाम् ॥' इत्यत्रासंष्ठुलवाक्यार्थेऽतिप्रसङ्गः । कुशलनिपुणपदाभ्यामेकस्यैव धर्मस्योपादानात् । न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम् । निपुणकुशलपदाभ्यां प्रतिपादितेन शुद्धसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात् । नापि धर्मिणोरौपम्येऽपि विशिष्टवाक्यार्थयोस्तत्र तथेति वाच्यम् । अवयवद्वारा तयोरपि तस्य तथात्वात् । स्वभावसिद्धत्वेनानुपात्तधर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्, मैवम् । साधारणधर्मस्य वस्तुप्रतिवस्तुभावोत्या तदितरपदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । प्रकते च खलफणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरनानुरूप्यान्न बिम्बप्रतिबिम्बभाव इति न दोषः । यद्वा अस्त्वत्र प्रतिवस्तूपमा । परं त्वसंष्ठुलतारूपस्य वाक्यार्थसामान्यदोषस्य सत्त्वादचमत्कारिणी । दुष्टोपमादिवत् । वाक्यार्थों हि गाढतरव्युत्पत्तिनिपुणीकृतान्तःकरणैर्नानाविधपदार्थ- रचनापरिवृत्तिसमथैरव कविभी रचितः कामपि कमनीयतामाधत्ते । नेतरः । अप्पदीक्षितेन । वाचेति । बृहस्पतेरुक्त्यापीत्यर्थः । स्वसिद्धान्ते आक्षिपति-अथेति । स्वीयहितेति । स्वीयानां यानि हितानि तत्प्रतिबन्धकर्मणीत्यर्थः । नापीत्यस्य वाच्यमित्यत्रान्वयः । तत्र तथेति । औपम्यं गम्यमित्यर्थः । तयोरपि विशिष्टवाक्यार्थयोरपि । तस्येति । औपम्यस्य गम्यत्वादित्यर्थः । स्वभावसिद्धत्वेनानुपात्तेति । एतद्रूपानुपात्तधर्मेणेत्यर्थः । तादृशौपम्यस्यैकधर्मस्य संबन्धिभेदेन द्विरूपादानरूपवस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकत्वाभावान्न प्रतिवस्तूपमोपयोगितेति चिन्त्यमिदम् । विवक्षितं अत्रेति शेषः । ननु तयोरभावत्वेनानुरूप्यादस्त्येव बिम्बप्रतिबिम्बभावोऽत आह---यद्वेति । घटना अननुरूपेति भावः । असंष्ठुलतारूपस्येति । पूर्वाक्यार्थघटकहितप्रत्यूहकर्मणीति नामार्थविभत्त्यर्थादीनामुत्तरवाक्यार्थघटके प्राणा-