पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। र्म्यस्योदाहरणम्, 'यदि सन्ति' इति तु न युक्तम् । वैधर्म्योदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदार्ढ्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम् । प्रकृते च यदि सन्ति तदा स्वयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नह्यत्र द्वितीयार्धैन तत्सजातीयोऽर्थो निबध्यते । निबध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात् । नहि वैधर्म्ये प्रकृतानुरूप्यं जातुचिद्धटते । व्याघातात् । तस्मात्साधर्म्येणैवेदमुदाहरणं संगतम्, न वैधर्म्येण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्घटित उत्तरवाक्यार्थः साधर्म्यमर्हतीति वाच्यम् । स्वयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्याथें निवेशितत्वात् । अत्यन्तायोगव्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात् । 'सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥' अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधर्म्यं, तथा 'यदि सन्ति–' इति पद्येऽपीति नञ्मात्रश्रवणादेव वैधर्म्यं जगदे । न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु 'यदि सन्ति-' इति पद्यस्य 'नहि कस्तूरिका-' इत्याद्युत्तरार्ध स्वत एवेत्यर्थवर्णनं तत्र स्वत एवेत्यंशो न वाच्यः । किं त्वाक्षेपलभ्यः । आक्षेपेण च 'मार्मिकः को मरन्दानाम्' इति भवदुदाहृतेऽपि मधुव्रतं विना को जानाति मधुव्रत एव जानातीत्यर्थप्रतीतेवैयधिकरणोदाहरणत्वं न स्यात् । अस्तु वा एवकारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यतिरेकसजातीयार्थनिबन्धनादन्वयसजातीयार्थानिबन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधर्म्योदाहरणपरता । न त्वाक्षिप्तव्यतिरेकसजातीयार्थानिबन्धन एव वैधर्म्योदाहरणत्वमिति राजाज्ञास्ति । तस्माद्युक्तमित्यन्तं सर्वमयुक्तमिति बोध्यम् । अयुक्तत्वमेवोपपादयति-वैधर्म्योदाहरणं हीति । जातुचित् कदाचित् । नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकत्वेन कथमाकर्षणमत आह-अत्य- न्तति । साधर्म्येणैवेदमुदाहरणमित्युक्तदृष्टान्तपूर्व द्रढयति-सन्त इति । विद्यमाना इत्यर्थः । कथं तर्हि तैस्तथोक्तमत आह-नञिति । जगदे कथितवान् । आयुष्मता