पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ काव्यमाला। वैधर्म्येणाप्येषा संभवति- 'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' यथा वा- 'गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥' अत्र शाब्देन दृष्टान्तेन तद्गतः सामान्यावच्छिन्नव्यतिरेकसहचार आक्षिप्यते । तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषावच्छिन्नान्वयनियमः सिध्यतीति प्रायशः सर्वत्र वैधर्म्ये स्थितिः । एवमन्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वय- दृष्टान्तेन सामान्यान्वयनियमसिद्धिद्वारा तत्सिद्धिः । नियमविशेषरहितकेवलार्थमात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्रं गम्यम् । नतु नियमः । अप्रयोजकत्वात् । यथा 'भैरभ्रे भासते चन्द्रो भुवि भाति भवान्बुधैः' इत्यादौ । ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते । यावता प्रागुपदर्शितायां वैधर्म्यप्रतिवस्तूपमायां वाक्यार्थयोरौपम्यस्य बाधात् । नहि पचतिनपचतीति वाक्यार्थयोः पाकक्रियामात्रसाम्यादौपम्यं गम्यते । निषेधप्रतियोगित्वेनोत्तरवाक्यार्थै तस्या अप्ररोहादिति चेत्, न । प्रकृतवाक्यार्थाक्षिप्तस्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात् । न च वाक्यार्थयोरौपम्यमिति यदुक्तं तत्कथं संगच्छतामिति वाक्यवेद्यस्यैव प्रकृते वाक्यार्थत्वेनेष्टत्वात् । तथा हि- 'तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥' तानां रचितानाम् । लोकंपृणैर्लोकपूरकैः । वंशभव इति । महिमाभावव्याप्यतुम्बीफलरहितवीणादण्डसदृशः सङ्गविशेषाभावव्याप्यपूज्यत्वाभाववान्पुरुष इत्युपमाकारोऽत्र बोध्यः । एवमग्रेऽपि । अत्र उदाहरणद्वये । प्रतिपादितमिदं सर्वमनुपदमेव । भैर्नक्षत्रैः । वाक्यार्थयोविधिनिषेधयोः । नह्येत्यस्य एवमिति शेषः । वेद्यस्यैवेति । यथाकथंचिद्वाक्यजन्यप्रतीतिविषयस्यैवेत्यर्थः । तत्त्वमिति । अत्रापि मधुव्रता तिरिक्तज्ञानाविषय