पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ३३१ उदाहरणम्- 'आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता- ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥' अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते । यथा वा- 'विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकपृणैः परिमलैः परिपूरितस्य कालागुरोः कठिनतापि नितान्तरम्या ।' मायां गगनाधिकरणकभानुकर्तृकशोभाविशिष्टभूम्यधिकरणकत्वत्कर्तृकशोमेति बोधः ।वैशिष्टयनियामकसंबन्धश्च स्वकर्तृसदृशकर्टकत्वमेव । संबन्धविशेषतात्पर्यग्राहकौ च यथातथा शब्दौ । नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपद्मसदृशं तादृशमाननमित्येव । न च वाक्यार्थोपमायां तादृशशोभाश्रयभानुसदृश ईदृशशोभाश्रयस्त्वमिति बोधः । क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानत्वेनान्वयायोगात् । प्रतिवस्तूपमायां तु तादृशसंबन्धद्योतकपदाभावाद्गम्यतैवौपम्यस्येति विशेषः । यद्वा वाक्यार्थोपमायां तादृशसंबन्धोऽपि यथातथापदद्योत्यत्वात्प्रकार एव । 'यत्र वाक्यद्वयगतानां पदार्थानां सर्वेषां परस्परसाम्यं तत्र प्रतिवस्तूपमा' इति शरदागमकृतः । आपद्गत इति । अत्रोदाहरणे आपगतः सत्पुरुषोऽपूर्वौदार्यवान् स्वकीर्तित्वादित्यर्थविशेषरूपे न कालागुरोदृष्टान्तता । यथा पर्वत एतद्वह्निमान् एतद्भूमात् इत्यत्र महानसस्य । तस्मात्कालागुरुरूपदृष्टान्तेन तद्गृत्तिसामान्यधर्मावच्छिन्नयोयोतिसिद्धौ ‘यत्सामान्ययोर्व्याप्तिस्तद्विशेषयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः । उपमा चापगतः सत्पुरुषो दहनमध्यगतकालागुरुसदृश इति । साधारणधर्मश्च बिम्बप्रतिबिम्बभावापन्नापूर्वीदार्यलोकोत्तरपरिमलविशेषणकं विस्तारणम् । न वस्तुप्रतिवस्तुभावापन्नम् । एवं वैयधिकरण्येऽपि व्यतिरेक आक्षिप्यते । तत्र च पूर्वोक्तरीत्या एकविशेषेऽपरविशेषस्य दृष्टान्तत्वाभावात्तद्वृत्तिसामान्यावच्छिन्नव्यतिरेक आक्षिप्यते । सिद्धे च तस्मिस्तद्विपरीतदृष्टान्तेन तादृशसामान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिन्नकाव्योक्तान्वयनियमसिद्धिरिति बोध्यम् । विश्वाभिरामेति । जगद्रमणीयेत्यर्थः । गुम्फि-