पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

- रसगङ्गाधरः। 'शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥' इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् । गुणक्रियेत्युपलक्षणं वा धर्ममात्रस्य । एवम् 'एकस्त्वं दानशीलोऽसि प्रत्यर्थिषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयाल्लक्षणप्रवृत्तिः । यथाकथंचिदनेकत्रैकान्वयस्य चमत्कारिणोऽपेक्षितत्वात् । एतेन- 'हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयोः समा॥' इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षितमुदाहृतं च तत्परास्तम् । अस्या अपि 'वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।' इति पूर्वलक्षणाक्रान्तत्वात् । एकानुपूर्वीबोधितवस्तुकर्मकदानपात्रत्वस्य परम्परया तादृशशब्दस्य प्रागुक्तमार्गेणार्थस्य वा धर्मस्यैक्यात् । 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥ धर्ममात्रं गुण इति वैयाकरणमतेनेदम् । किं च 'न मनागपि निश्चिन्ते' इत्यत्र चिन्ताभाववद्भेदस्य चिन्तानतिरिक्ततया गुणस्यैव साधारणधर्मत्वमित्यपि वक्तुं शक्यम् । दानेति।द्रव्यस्य पराभवस्य वेति भावः। एतेनेत्यस्यार्थमाह-अस्या अपीति।पूर्वलक्षणाक्रान्तत्वादिति । अत्रेदं चिन्त्यम् -हिताहितविषयकतुल्यव्यवहारकर्तृत्वप्रतीतिकृतचमत्कारे एषा । यथोक्तधर्मिणामेकधर्मान्वयकृत एव यत्र चमत्कारस्तत्राद्येति भेदात् । 'प्रदीयते पराभूतिः' 'यश्च निम्ब-' इत्यनयोः पद्ययोर्न तादृशधर्मान्वयतयात्र कृतश्चमत्कारः । किं तु राजनिम्बयोर्हिताहितविषयकशुभाशुभान्यतरैकजातीयकर्तृकव्यवहारकृत एवेति सहृदयहृदयमेवात्र प्रमाणम् । अत एव 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा' इत्यत्र न तुल्ययोगिता । चन्द्र इव सुन्दरं मुखं इत्यत्र न दीपकम् । तत्र सादृश्यप्रतीतिकृतचमत्कारकस्यैव सत्त्वात् । नन्वेवमलंकारान्तरत्वमेव वक्तुं युक्तम् । इति चेत् सत्यम् । अत एवास्वरसात्कुवलयानन्दकृता 'इयं सरस्वतीकण्ठाभरणोक्ता' इत्युक्तम् । न च तुल्ययोगितायां सादृश्यस्य गम्यतया गम्योपमयैव निर्वाहः । तावन्मात्रकृतचमत्काराभावात् । एकधर्मान्वयकृतस्यापि सत्वात् । प्रतीयमा-