पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'न्यश्चति वयसि प्रथमे समुदश्चति किं च तरुणिमनि मुदृशः । उल्लसति कापि शोभा वचसां च दृशां च विभ्रमाणां च ॥' अत्र गुणः । यदि च 'विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम्' इत्युत्तरार्ध तदा क्रिया । यदि 'दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्' इति क्रियते तदा गुणविशिष्टा क्रिया । केवलगुणेन साक्षात्संबन्धाभावात् केवलक्रियायाश्चाहृद्यत्वात् । अप्रकृतानामेव यथा- 'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्रि पाण्डिमनि । मालिन्यमाविरासीद्वाकाधिपलवलिकनकानाम् ।।' अत्र गुणः । आविर्भावक्रियायाः साक्षार्द्धमिभिरनन्वयात् । 'न्यश्चति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च' इति कृते क्रिया । 'धवलीभवत्यनुदिनं लवली कनकं कलानिधिश्चायम्' इति कृते गुणविशिष्टक्रिया। 'त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् । विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥' अत्रोभयसाधारणयोर्गुणक्रिययोरभावाच्छब्दमात्रम् । श्लेषमूलेनाभेदाध्यवसानेन पिण्डीकतोऽर्थों वा । यत्त्वलंकारसर्वस्वकृता, तदनुगामिना कुवलयानन्दकृता च 'गुणक्रियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोक्तं तदापाततः । विद्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । सामान्यस्य क्रियान्वयित्वरूपकारकत्वस्य । प्राचां मतेनेदं क्रियोदाहरणमुक्त्वा गुणोदाहरणमाह-न्यञ्चतीति । तिरोभूते सतीत्यर्थः । गुण इति । शोभारूप इत्यर्थः । आदिपदग्राह्योदाहरणमाह-यदीति । ननु केवलस्यैव तत्त्वं कुतो नात आह-केवलेति । कारकाणां मिथः क्रियाद्वारकसंबन्धादाह-साक्षादिति । लवलिः 'हरफारेवडी' । गुणो मालिन्यरूपः । धर्मिभिश्चन्द्रादिभिः । तेषामकारकत्वात् । पुरटं सुवर्णम् । आदिसंग्राह्यान्तरोदाहरणमाह-त्वयीति । पाकेति । इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति । संवत्सरवदाचरन्तीत्यर्थः । उभयेनेति । नेत्रादिनेत्यर्थः । शब्दमात्रमिति । वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तित्वाभावादाह-श्लेषेति । पिण्डीकृत एकीकृतः । यथाक्रममाह-गुणेति । यद्वा जातिक्रियाद्रव्यातिरिक्तं