पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला ।

विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरतामाधातुम् । इत्थमेव निःशेषच्युतचन्दनमित्यादिपद्येष्वधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापतितो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदयवेद्यो विशेषः । यत्तु चित्रमीमांसाकृतोक्तम्-

‘प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा
किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥

इत्यत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गमतो गुणीभूतव्यङ्ग्यमिति ।' तन्न । सबाष्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः । न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम् । निःशेषच्युतचन्दनमित्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्गताया दूतीसंभोगादौ संभवाद्गुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति


ममेव । चित्तारूढामित्यर्थः । अप्रेति । अव्यञ्जयन् । स्वेति । मन्दत्वमात्रेणेत्यर्थः । परेति । परमसुखास्वादविषयतामित्यर्थः । अर्थेनापराधान्तरनिमित्तकदुःखदातृत्वरूपेण । तत्र तात्पर्याभावादाह-आपातत इति । ननुक्तभेदयोश्चमत्कृतेस्तौल्यादैक्यमेवास्तामत आह–अनयोरितिप्रहरविरताविति । हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्याह्नादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैष्यस्यागमिष्यसि । इत्येवं प्रकारेण । आलापेऽस्यान्वयः । अग्रे स्पष्टम् । शतशब्दोऽनियतसंख्यावाची । एवमुक्तव्यङ्ग्यव्यवच्छेदे । व्यङ्ग्यस्य शक्नोमीत्यन्तस्य । ननु विनिगमनाविरहोऽत आह-आलोपैरिति । प्रकृत्यर्थस्य तादृशालापस्य । अपिरुक्तसमुच्चये । ननु सबाष्पगलज्जलतदुक्तालापानां गमनोत्तरचिरकालावस्थितिनिवारकतयाप्युपपत्तेर्व्यङ्ग्यसहितानामेव गमननिवारणसामर्थ्यमत आह–अस्तु वेति । आन्तरालिकव्यङ्ग्यमादायैव ध्वनिगुणीभूतव्यङ्ग्यादि व्यवहारस्योपपद्यमानतया विप्रलम्भेन ध्व-