पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
रसगङ्गाधरः ।

व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य​ बाष्पादेरनुभावस्य चित्तावेगादेश्च​ संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् ॥

यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ।

यथा यमुनावर्णने-'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या सखी' इति । अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । श्चैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायकाकल्पितकाश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते । न तादृशोऽस्ति कोऽपि वाच्यार्थी यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामाधातुं प्रभवति । अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम् ॥

यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ।

यथा---
मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे ।
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ॥


नित्वं को निवारयेदिति चिन्त्यम् । अन्यथा ‘ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्ग्यीयप्रकाशाद्युक्तोदाहरणानामप्यसंगत्यापत्तौ व्याकुली स्यात् । तत्रापि व्यङ्ग्यसंकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यत्वबुद्ध्यापि संभवादिति बोध्यम् । व्यङ्ग्येति । तदसमानाधिकरणत्वं चास्फुटतया बोध्यम् । हिमाचलस्य मैनाकः पुत्रः । लम्बीकृतत्वप्रविष्टत्वे भुजविशेषणे । तद्वदाचरिता । 'उपमानादाचारे' इति क्यङ् । सखी यमुना वाच्यैव । तदर्थे क्यङः सत्त्वात्। अत्र श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते । एवं व्यावर्त्ये व्यङ्ग्यमाह-श्वेत्येति । व्यङ्ग्यानामिति शेषः । नागेति । ग्रामीणेत्यर्थः । अत एव सम्यग्लेपनात्स्वाङ्गगौरत्वनिगरणम् । काश्मीरद्रवः केसररसः । सन्नपीत्यनेन व्यङ्ग्यासमानाधिकरणत्वमित्येव कुतो नोक्तमित्यस्य निरासः । तदाह---न तादृश इतिमनागिति । ईषदस्पृष्टव्यङ्ग्य एवेत्यर्थः । उपस्कृतत्वं पोषितत्वम् । अत एव तस्याः प्राधान्यम् । गोत्रात्र इति तृजन्तस्य चतुर्थ्य​न्तम् । शिवाय विष्णवे वा । सूर्याचन्द्रनेत्राय । त्रयी वेदत्रयी तत्र शात्रवं शत्रुत्वं यस्य मदनस्य, येषां वा दैत्यानाम, तच्छत्रवे। गोत्रारि-