पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। त्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम् । बद्धमौनं च विषयः । मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते । एवं प्रयोज्यधर्मके धर्मिणि सर्वत्रापि धर्मद्वारक एव पञ्चर्म्यान्वयः । यत्र तु धर्म एव किंचिद्धर्माभिन्नत्वेनाध्यवसितः साक्षाद्विषयस्तत्र विषयतावच्छेदकधर्मो निमित्तम् । यथा तत्रैव 'विश्लेषदुःखादिव बद्धमौनमस्य' इति निर्माणे मौनत्वम् । एवं तृतीयार्थेऽपि बोध्यम् । फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम् । प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः संसर्गः । तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यते । यत्र चोत्प्रेक्ष्यते तदंशे विशेषणतया भासमानो धर्मों निमित्तम् । स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मस्तथाभूते च धर्मे विषये तद्विशेषंणीभूतोऽन्य इति विवेकः । एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो न साक्षात्संभवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्वप्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफलयोरुत्प्रेक्षा बोध्या । यद्यपि विशेषणेऽपि यथाकथंचितुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम् । तथापि विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता । यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात् । किं च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्फलकयोः कार्यकारणयोरेव निगीर्णे विषये उत्प्रेक्षणात्स्वरूपस्योत्प्रेक्षायामेव पर्यवसानम् । न हेतुफलयोः । एवं च विभागश्चिरंतनानामुच्छिन्नः स्यात् । अथ स्वरूपतादात्म्याविशेषेऽपि हेतुफलाविशेषणकशुद्धस्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरूपोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत् 'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रवि- ष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति प्रागुदाहृतायां तृतीयार्थेऽपीति । हेताविति शेषः । प्राग्वत् प्रागुक्तप्रथमपक्षवत् । तच्च फलं च । तथाभूते च विषयतावच्छेदकधर्माभिन्नत्वेनाध्यवसिते च । तद्विशेषेति । विषयतावच्छेदकधर्म इत्यर्थः । समासेति । समासप्रत्ययाभ्यां गुणीभूते इत्यर्थः। यथाकथंचिद्धेतुफलयोरिति । 'स्वर्गों ध्वस्तः' इत्यादाविव, 'नीलरूपवान् जातः' इत्यादाविव चेति भावः । तस्य तयोरुद्देश्यविधेयभावप्रत्ययस्य । ननु तत्कोटिप्रविष्टत्वेऽपि तस्य न