पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २९३ गुणहेतूत्प्रेक्षा यथा-. 'परस्परासङ्गसुखान्नतभ्रgवः पयोधरौ पीनतरौ बभूवतुः । तयोरमृष्यन्नयमुन्नति परामवैमि मध्यस्तनिमानमञ्चति ॥' अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत्पञ्चम्यैव निर्दिष्टम् । अपराधे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम् । यथा 'भोक्ता भुञ्जानो वा तृप्यति' इत्यादी भोजनादेः । यथा वा- 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात् । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ।' क्रियाहेतृत्प्रेक्षा यथा-'महागुरुकलिन्दमहीधरोदरविदारणाविर्भव- न्महापातकावलिवेल्लनादिव श्यामलिता' इति । द्रव्यहेतृत्प्रेक्षा यथा- 'वराका यं राकारमण इति वल्गन्ति सहसा सरः स्वच्छं मन्ये मिलदमृतमेतन्मखभुजाम् । अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता- मियं नीलच्छायादुपरि निरपायाद्गगनतः ॥' अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलङ्के उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः। प्रतिदिनोपचीयमानत्वं निमित्तम् । अञ्चति गच्छति । अपरार्ध इति । उत्तरार्ध इत्यर्थः । क्वचित्तथैव पाठः । आर्थत्वे हेतुगर्भं विशेषणमाह-धर्मीति मध्येत्यर्थः । गुणाभावस्य मर्षणाभावस्य । भोक्तेत्यत्र कालसामान्यप्रतीतेर्विशेषोदाहरणमाह-भुञ्जानो वेति । नैयायिकोक्तगुणस्यैव ग्रहणमिति भ्रमनिरासायोदाहरणान्तरमाह-यथा वेति । उदयदिति । उदयन्ती आविर्भवन्ती या लज्जा तस्याः संबन्धात्, आधिक्याद्वेत्यर्थः । भूमिमभिव्याप्य नम्राः कंधराः शाखा येषां तानि । वृक्षाणां समूहरूपाणीत्यग्रिमार्थः । अत्रापि लज्जारूपगुणस्य हेतुत्वं स्पष्टमेव । वेल्लनात्तत्संबन्धात् । अत्र वेल्लनं क्रियेति स्पष्टमेव । श्यामलिता संजातश्यामा । वराकाः कृपणाः। यं चन्द्रम् । मिलदमृतमिति । 'लसदमृतम्' इति पाठान्तरम् । मखभुजां देवानाम् । अमुष्मिन्सरसि । इयं द्युतिर्नैल्यरूपा । मिषतां पश्यताम् । उपरि । वर्तमानादिति शेषः । निरपायादनश्वरात् । नी-