पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २८१ इति चित्रमीमांसागतं तन्निमितमपि लक्षणमिह तथैव । तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापहृतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं विमर्शिन्याम्-"न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते' अत्र विषस्य निषेधपूर्वं ब्रह्मस्वविषये आरोप्यमाणत्वादृढारोपं रूपकमेव, नापद्भुतिः” इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरेणेव मयाप्ययं प्रकारोऽपह्नुतिमध्ये गणित इत्युच्यते, तदा आहार्यताद्रूप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापह्नुतिरित्यप्युच्यताम् । निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागत- त्वन्निर्मितापडतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपि च यदि 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्तापह्नुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्णुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥' इति रूपकलक्षणस्यातिव्याप्तिर्वज्रलेपायिता स्यात् । विषयिणो निह्नवेऽपि विषयस्यानिह्नुततत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापहृतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक् । तथैव न प्रवर्तते । उपसंहरति-तस्मादिति । दृढारोपमारोपदार्ढ्यसंपादकम् । न विषमिति । अत्रेदं चिन्त्यम्-नेदं मुखं चन्द्र इति प्रसिद्धापह्नुत्युदाहरणेऽपि मुखनिषेधकस्य चन्द्रारोपदार्ढ्यसंपाकत्वस्य वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापह्नुतिमात्रस्योच्छेदापत्तेः । यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वादलंकारान्तरत्वं तर्हि प्रकृतेऽपि तुल्यमिति । प्राचीनोति । प्रकाशकारादीत्यर्थः । एवमग्रेऽपि । इति दृष्टान्तोल्लेखेन तदनुरोधेनायं गणित इति सूचितम् । अपहृतितत्त्वावच्छिन्नम् । ननु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वेन कथमपलापः, अतो दोषान्तरमाह- एवमपीति । उक्तरीत्या तथाङ्गीकारेऽपि । दोषान्तरमाह-अपि चेति । तस्यामेव पर्यस्तापहृतावेव । रत्नाकरादिति । आदिना दण्डिग्रहणम् । इत्थं हि काव्यादर्शे (२।३०४ ) तेनोक्तम्-'अपह्नुतिरपह्रुत्य किंचिदन्यार्थसूचनम्' इति । यथाकथंचित्सामञ्जस्यमिति । एतदनन्तरमत्र किंचित्पतितम् । तत्सर्वपुस्तके दुर्लभमेव । अ-