पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८० काव्यमाला। अङ्गारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥' अत्र विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपहृतेः । न त्वपहृत्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात् । किं तु भ्रान्त्यलंकार एव । 'अलिर्मृगो वा नेत्रं वा यन्न किंचिद्विभासते । अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥' इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि- करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शङ्कयम् । वाशब्दार्थत्वात् । यत्तु कुवलयानन्दाख्ये संदर्भे अप्पयदीक्षितैरपह्रुतिप्रभेदकथनप्रस्तावे पर्यस्तापहृत्याख्यं भेदं निरूपयद्भिरभिहितम्- 'अन्यत्र तस्यारोपार्थः पर्यस्तापहृतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥” इति । अत्र चिन्त्यते-नायमपहुतेर्भेदो वक्तुं युक्तः । अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः, उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापहृतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं 'विषयापह्णुवे वस्त्वन्तरप्रतीतावपह्नुतिः' इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ।' ल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्रं सादृश्यमात्रम् । निश्चयत्वनिवेशफलमाह-अलिरिति । व्याख्यातमिदम् । अपदार्थत्वं कथमपि पादप्रतिपाद्यत्वम् । वाशब्देति । विकल्पद्वारा वाशब्दव्यङ्गयत्वादित्यर्थः । एवं चार्थिको निषेध इति भावः । स कारिकाकारः स्वीग्रव्याख्यानमाह--उपमेयमसत्यमिति । अत्र ह्युपमेयपदे पदार्थोपलक्षणमावश्यकमित्येतद्विरोधश्चिन्त्य इत्यने स्फुटं निरूपयिष्यते। प्रतीमाविति । तत्रैव प्रत्यासत्तेरिति भावः। एवं पूर्वत्रापि बोध्यम् । साम्यात्सादृश्यमूलकम् ।