पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3 रसगङ्गाधरः। २७३ 'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिप्रसङ्गः कथं नाम वार्येत । मार्जाराद्यनेकग्रहीतृकानेकधोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदाच्च । तस्मात्संकीर्णनिवारणाय यनोऽनर्थक एव । संशयसंकीर्णो यथा- 'भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिविः । प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि ॥' अत्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वम् । समुदायस्य तूल्लेखता । अयं च स्वरूपमात्रोल्लेखे स्वरूपोल्लेखः प्रागेव निरूपितः । फलानामुल्लेखे फलोल्लेखो यथा- 'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ॥' हेतूनामुल्लुखे हेतूल्लेखः । यथा- 'हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात् ॥' विलक्षणेत्यर्थः । त्वदुदेति। त्वया प्रथमं मुख्यत्वेनोदाहृतेत्यर्थः । तादृशभ्रान्तिविशेष- स्यापि वारणावश्यकत्वात् । अन्यथा संकीर्ण तत्कथमादावुदाहृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः । अनेकधेति । पयस्त्वादीत्यर्थः । उपसंहरति-तस्मादिति । शिबिस्तन्नामको राजा। अत्र द्वयोरिति । प्रथमपाद द्वितीयपादप्रतिपाद्ययोरित्यर्थः । उक्तवद्भेदमाह-अयं चेति । उल्लेखश्चेत्यर्थः । उल्लेखे सतीति शेषः । एवमग्रेऽपि । अर्थिन इति । राजानं प्रति कव्युक्तिः । हरीति । गङ्गास्तुतिः। नखरेति । नखेत्यर्थः । वस्तुमाहात्म्यादिति । स्वस्वरूपस्यैव माहात्म्यादित्यर्थः । पूर्वोदाहणे एकस्यैव राज्ञो दातृत्वत्रातृत्वहन्तृत्वप्रकारेणोल्लेखः । अत्र त्वेकस्य पुण्यतमात्वस्य हरिपदसङ्गादिहेतुकत्वेनोल्लेखः । प्रकारस्य फलत्वहेतुत्वाभ्यां