पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ काव्यमाला। - संकीर्णोऽपि दृश्यते । यथा- आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चालि पूर्णमृगलाञ्छनसंभ्रमेण चञ्चपुटं चटुलयन्ति चिरं चकोराः ॥' अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः संकीर्णः । 'वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्येति मतं मम ॥' अत्र विषयतावच्छेकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपकुत्या संकीर्णः। अप्पदीक्षितास्तु-"एवमपि यदि- 'कान्या चन्द्र विदुः केचित्सौरभेणाम्बुजं परे । वक्रं तव वयं बूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया । तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्यागम्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः । तन्न । 'द्विविधश्चायमुलेखः, शुद्धोऽलंकारान्तरसंकीर्णश्च' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वयमेवोक्तत्वात् । इहाप्यपह्णुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् । यदि चैवंविधापह्णुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा कस्य वोक्तिः । चिरं चकोरा इति। स्वस्वप्रियाहारलिप्सा च निमित्तम् । एतां नायिकां नायकोक्तिरियम् । अवच्छेकस्य वनितात्वस्य । निषेध्येति । आर्थिकेत्यादिः । एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहुव्रीहिः । श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपादनमुक्त्वान्यदाह हर्षचरिते। इत्यादौ यस्तपोवनमित्यादिगद्ये। अगृह्यते- त्यस्य सर्वत्र संबन्धः । यच्छब्दार्थः श्रीकण्ठजनपदः। शुद्ध इति। तत्र तपोवनादिभूनिष्ठत्वादिति भावः । यमनगरत्वादीनां ताद्रूप्यानुभवगोचरतयान्वये आह- भ्रान्तीति । यदि तेषामुपरञ्जकतामात्रेणान्वयस्तदाह-रूपकेति । एवंविधेति । "