पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ काव्यमाला। नवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः । केचित्तु "क्वचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयावतिष्ठते तत्रारोप्यमाणपरिणामः । यथा-'वदनेनेन्दुना तन्वी शिशिरीकुरुते दशौ' । अत्र वदनमिन्द्वमिन्नतयावतिष्ठते । केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात् । क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते । तत्र विषयपरिणामः । यथा-'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' । अत्रेन्दुर्वदनाभिन्नतयावतिष्ठते । केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदकविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवोक्तम् -'तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते" इति वदन्ति । अथ बोधः- हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः। तथा श्रावं श्रावं वचः सुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचः सुधामिति रूपके तु वचोनिष्ठाभेदप्रतियोगिनी सुधामिति बुद्धिः । एवं च 'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ' इति व्यस्तरूपके च बोधवलक्षण्यम् । तथा- 'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । हृदये धारणाद्यस्य न पुनः खेदसंभवः ॥' बोध्यम् । वदनस्येति । तस्य जलभिन्नत्वादिति भावः । इन्दोरिति । तस्योद्दीपकत्वेन तज्जनकत्वादिति भावः । तल्लक्षणेति । रूपकलक्षणेत्यर्थः । तदेवाह-अत एवेति । उक्तं मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता । चमत्कृतिनिदानत्वेनालंकारभेद इति सिद्धम् । तेनान्यत्रेवात्रापि भेद एवोचित इति । परिणामे वचःसुधामित्यंश इत्यर्थः । सुधामितीत्यत्र धीरत्यस्यानुषङ्गः । एवमिति । प्राग्वदित्यर्थः । बोधवैः लेति । अनुयोगित्वमुखत्वप्रतियोगित्वमुखत्वकृतमिति भावः । एवमग्रेऽपीत्याह- तथेति । यस्य वागमृतस्य । स्थलान्तरे बोधमाह तथेति। तावदादौ । तस्य च