पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २५१ अलंकारसर्वस्वकारस्तु-आरोष्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा 'आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपर- ञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्यो- पयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान् । अ- त्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उप- योग आहोस्वित्प्रकृतविषयात्मतया उपयोगोऽर्थः । न तावदाद्यः। 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥' इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखे- दव्यथारूपकायें उपयोगेनातिप्रसङ्गात् । न द्वितीयः । 'अथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसं- घटने युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः, न तु विषयवचोरूप- तया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम् । तस्मादस्मदुक्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदोऽपि मी- पेति । प्रकृतोपेत्यर्थः । प्रकृतोपरञ्जकत्वेनेति। तस्य स्वोपरक्तबुद्धिविषयीकरणेने- त्यर्थः । उपयोग इति । वक्ष्यमाणार्थपदस्यात्राप्यपकर्षः । दासे इति । नायिकां प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योक्तिरियम् । नायिकासंबन्धात्पुलकोदयः । पुलकाङ्कुरा एव कण्टकाप्राणीत्यर्थः । तदुदेति । अलंकारसर्वस्वकृदुदाहृतेत्यर्थः । एवमग्रे- ऽपि । आरोप्येति । पुलकेष्वित्यादिः । प्रकृतेति । प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथैत्यर्थः । पत्रिमतां पक्वत्वम् । तत्परतस्तदनन्तरम् । राजसंघटने राजमेलने। उपाय. नस्य 'भेट, नजर' इत्यादिभाषाप्रसिद्धस्य । आरोप्येति । वचसीत्यादिः । प्रत्युत विप- रीति । अत्रेदं चिन्त्यम् -यत्किंचिद्रूपोपायनस्य राजसंघटनानुपायत्वात् । विलक्षण- वचनतुरंगमादिरूपस्यैव च तदुपायत्वात् । एवं च राजसंघटनोपयोगित्वं तुरंगमादिरूपे- णैवोपायनस्येतदुक्तिरेव विपरीतेति । अग्रिममवधारणमिदं वित्यायुक्तं च चिन्त्यमिति