पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४० काव्यमाला। मुखमित्युपमातोऽस्य को भेदः । बोधवैलक्षण्याभावेन विच्छित्तिवैलक्षण्याभावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्। निरूढलक्षणातिरिक्ताया लक्षणायाः प्रयोजनवत्तानियमात् । अभेदबुद्धेश्च वृत्त्यन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम्" इत्याहुः । नव्यास्तु-"नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाञ्चन्द्राभिन्नं मुखमिति लक्षणां विनैव बोधः । फलस्यान्यथैवोपपत्तेर्लक्षणाकल्पनस्यान्याय्यत्वात् । किं च यदि च रूपके लक्षणा स्यान्मुखचन्द्र इत्यत्रोपमितिविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वमन्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं न चन्द्रसदृशमपितु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात् । एवं देवदत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तु न तथा अपि तु चन्द्रसदृशमित्यादौ नञर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वान्न चन्द्रसदृशश्चन्द्रसदृश इति बोधकदर्थनापत्तेश्च । नहि नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः । एतदन्वयवेलायां तस्यानुपस्थितेः । तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम् । यद्वा आहार्यान्वयस्येव शाब्दान्वयस्यापि बाधनिश्चयप्रतिबध्यताकोटौ निवेशः । सति च बाधनिश्चये तद्वत्ताशाब्दबुद्धेरनुत्पादः । योग्यताज्ञानविरहात् । सति च क्वचिदाहार्ये योग्यताज्ञाने त- तावच्छेदकावच्छिन्नविषये पूर्वोपस्थितस्येत्यर्थः । वृत्तीति । शक्तिलक्षणान्यतरेत्यर्थः । वृत्यन्तरवित्तीति । व्यञ्जनाज्ञानेत्यर्थः । आहुरिति । एतन्मते ह्येवं रूपकलक्षणम्- अनिहुतविषयकं पुरस्कृतविषयतावच्छेदकं वा आहार्याभेदप्रतीतिफलकोपमानबोधकपदजन्यप्रतीतिविषयीभूतं साधर्म्यमिति । फलस्याभेदबुद्धेः । अन्यथैवोक्तप्रकारेण । न तथा न चन्द्रः सदृश इति । मुखपदार्थ इति शेषः । ननु स्वमते बाधसत्त्वेनं कथमभेदधीरत आह-तादृशेति । इदं च शाब्दे तस्याः प्रतिबन्धकत्वमूरीकृत्य वस्तुतस्तदेव नेत्याह-यद्वेति । नन्वेवं सति बाधनिश्चये तदभावो नोपपद्येतात आह-सति चेति । बुद्धेरनुत्पाद इति । इदं तु चिन्त्यम् । शाब्दबोधो हि भवत्येव । अत एव वह्निना सिञ्चतीति वाक्यप्रयोक्तुरद्रवेण वह्निना कथं सेकं ब्रवीषीत्युपहासः संगच्छते । अबोधे हि एतदर्थकंद्रविडभाषाश्रवणोत्तरं पाश्चात्यस्येव मूकतैव स्यात् । ननु पदार्थस्मरणमेव न शाब्दबोध इति चेत्, किमनेन श्रद्धाजाड्येन । बाधज्ञानादीनां च तद्बोध्येऽप्रामाण्यज्ञानजननद्वारा प्रवृत्तिप्रतिबन्धकत्वम् , योग्यताज्ञानादीनां च तज्जनकत्वमेव