पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २३९ सलिलक्षालनादीनां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गम् । 'नेदं रूपकम् । रूपके च बिम्बप्रतिबिम्बभावो नास्ति' इति केनाप्यालंकारिकंमन्येन प्रतारितस्य दीर्घश्रवस उक्तिरश्रद्धेयैव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात् । अत्र यदि रूपकं नाङ्गीकुरुषे मैवाङ्गीकुरु, तर्हि तत्रेवयथादिशब्दमयोगे उपमामपि । एवं त्वयि कोपो महीपाल सुधांशाविव पावकः' इत्यादी स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे ब्रूहि तर्हि । तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' इत्यादौ रूपकमपि । तथा- 'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रः संध्याकालो न संशयः॥ इत्यादावपि विशिष्टरूपक बोध्यम् । त्वयि कोप इत्यत्र विषयिणः स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेति विशेषः । न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या । अभेदस्य निश्चीयमानत्वात् । उत्प्रेक्षायां च सत्यां संभाव्यमानता स्यात् । अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापत्तेः । अथ बोधो विचार्यते- तत्र प्राञ्च:--"विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ विषये तस्या भेदेन संसर्गेण विशेषणतयान्वयः । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवदभिन्नं मुखमिति धीः। अत एवालंकारभाष्यकारः 'लक्षणापरमार्थं यावता रूपकम्' इत्याह । न च चन्द्रसदृशं स्करादीनां च' इति पाठः । नेदमिति । किं तु निदर्शनेत्यर्थः । चोऽप्यर्थे । दीर्घश्रवसो. लम्बकर्णस्य द्रविडस्याप्पदीक्षितस्य । तयोरिति । तदभावे इति शेषः । युक्त्यन्तरमाह-एवमिति । बालाघ्रः । शोणाभ्र इत्यर्थः। विषयिणश्चन्द्राधिकरणकाग्निरूपोपमानस्य । इह तु. कुङ्कुम इवेत्यत्र तु । एवमादौ आत्मनोऽस्येत्यादौ । इवाद्यप्रयोगादाह- प्रतीयेति । अन्यथा तस्य संभाव्यमानत्वे इष्टापत्तौ । तत्र बोधविषये । द्वयोरुपादानादाह-सारोपेति । उपस्थितौ सत्यामिति शेषः । विषये तस्या भेदेनेति । विषय-