पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः १६९ उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता तृतीयापि दृश्यते-- 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीत्तत्काकतालीयम् ॥ इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासे काक इव ताल इव काक- तालमिति काकतालसमागमसदृशश्चोराणामस्य च समागम इत्यर्थः । ततः काकतालमिवेति द्वितीय इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनज- न्यकाकवधसदृशश्चोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमाया- मुपभानस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता । वाचकोपमानलुप्ता तु नाम्नैव निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यते । धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता । सा चात्रापि तृतीय- चरणोक्तधर्मनिरासे प्रत्ययाथै दृष्टा । वाचकधर्मलुप्ता क्विप्समासयोर्द्वयोरेव कथिता । सापि 'चञ्चपुरुषः सो- ऽयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र स्वहिताकरणरूपस्य धर्मस्या- नुपादाने कनो लोपे विलोक्यते । एवं च द्वात्रिंशद्भेदा । अत्रेदमवधेयम्-कर्माधारक्यचि क्यङि च वाचकलुप्तोदाहरणं प्राचा- मसंगतमिव प्रतीयते । धर्मलोपस्यापि तत्र संभवात् । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम् । धर्ममात्ररूपस्याचारस्योप- माप्रयोजकत्वाभावात् । 'नारीयते सपत्नसेना' इत्यादौ वृत्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि चरतीत्यर्थः । पूर्वोक्तेन 'समासाच-' इत्यनेन। स्थिते इत्यस्यार्थे इत्यादिः । तृतीयचर- णोक्तेति । 'उपनतमेतदकस्मात्' इत्यस्य स्थाने चरणान्तरनिर्माण इत्यर्थः । धर्मलोप- स्यापीति । 'उपमानादाचारे' इत्यत्रोपमानमाचारनिरूपितमेव गृह्यते । उदाहरणे च पुत्रपदस्य पुत्रकर्मकाचारसदृशे लक्षणेति वैयाकरणमते च सुतरां धर्मलोपः । न चैत- न्मते 'त्रिविष्टपं तत्खलु भारतायते' इत्यत्र क्यचोऽनुपपत्तिः । भारताचारसदृशाचारस्य त्रिविष्टपवृत्तेरप्रसिद्धेः । 'सुपर्वभिः शोभितम्' इत्यस्य क्ष्लेषेणाभेदाध्यवसाय एव, न सादृश्यावसाय इति वाच्यम् । एकशब्दोपात्तत्वेनाभेदबुद्धेरिव शब्दरूपसाधर्म्येण साह- श्यबुद्धेरप्युपपत्तेः । इत्याहुः । ननु नारीयते इत्यादौ तस्य तत्त्वमस्तीत्यत आह-नारीति। २२