पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। कर्तृकर्मणमुल्गता यथा- 'निरपायं सुधापाय पयस्तव पिबन्ति ये। जलुजे निर्जरावासं वसन्ति भुवि ते नराः ॥' अत्र सुधापायमिति सुधामिव निर्जरावासमिति निर्जरा इवेति 'उप- माने कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल् । धर्मोपमानलुप्ता वाक्यगा समासगा च यथा- 'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे । सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥ 'तथापि ते सम' इति हित्वा 'भवत्सम' इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरणं समासगायाः। वाचकधर्मलुप्ता क्विन्गता यथा- 'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥' अत्र हारहरहीरशब्दा आचारार्थक क्विपि लुप्ते धातवः । तत्र हारा- दिशब्दा लक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः क्किबा- चारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव । हारादिशब्दा एव लक्षणया तादृशसादृश्याभिन्नमाचारमिति पक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोध- काभावाल्लोप एव । वाचकधर्मलुप्ता समासगा यथा- 'शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे । केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ अत्र वदनाम्बुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां के- दीति । गाहितमिति । यद्यपीत्यादिः । तथापि हे सहकार,जगति तव तुल्यं वस्तु भ्रम- रेण न प्राप्तमित्यर्थः । शुद्धैवेति । आर्यासामान्यलक्षणाक्रान्तत्वात् । सा तु मिश्रितेति भावः । धातव इति । तथा च हारन्तीत्यादि प्रयोगसिद्धिरिति भावः । तत्र उक्तप्रयो- गेषु । आचारमिति । बोधयतीति शेषः । स्पष्ट एवेति । सादृश्यस्य शक्तिप्रतिपा. द्यत्वात्किपो लुप्तत्वाच्चेति भावः । तादृशेति । हारादीत्यर्थः । तदित्युचितम् । अभिन्नामिति । तस्य धर्मरूपत्वादिति भावः । संभिन्ना मिश्राः । कान्ताश्च ते दन्ता- श्वेत्यर्थः । विशेषणेति । मयूरव्यंसकैतीत्यर्थः । अधिकरणेति । वदनाम्बुजे इत्यत्र-