पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। प्रत्ययप्रसङ्गः इति चेत्, मैवम् । श्वेषस्थल इवात्राप्येकशब्दोपादानोत्थस्य व्यञ्जनस्योपायत्वाद्वैयञ्जनिकबोधस्य बाधबुद्धयप्रतिबध्यत्वाच्च । अथ च- न्द्रतत्सदृशयोरेवैकपदोपात्तत्वाञ्चन्द्रसदृशे चन्द्रताद्रूप्यस्य प्रत्ययो यथा- कथंचिदस्तु । न तु मुखत्वविशिष्टे मुखे । अनुभवसिद्धश्च सर्वेषाम् 'वत्र्क्षे चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जृम्भते' इत्यादौ विषये विषयिता- द्रूप्यस्य प्रत्यय इति । सत्यम् । स्वताद्रूप्यवदभेदबुद्ध्या स्वताद्रूप्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धेः” इत्याहुः । अन्ये तु-"चन्द्रादिप- देभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहाभेदान्वयबोधो जायते । तत्तत्पदलक्ष- णाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयबोधत्वावच्छिन्नं प्रति हेतुतायाः पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वस्यानुभवसाक्षिकवै- लक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात् । अत एव ग- ङ्गायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयबोधस्त- त्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च संगच्छते । प्रकृते तु विषयिचन्द्रा- दिनिष्ठासाधारणगुणवत्त्वप्रत्ययः फलम् । नहि चन्द्रत्वप्रतीतिं विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम् । ताद्रूप्यपदेन तदसाधारण- गुणवत्त्वमेव प्राचीनैरुक्तम् । इत्थं च स्वरूपसंवित्तिकृतः फलीभूतसंवि- यति–वैयञ्जनीति । एतेन मुखत्वविशिष्टमुखव्यवच्छेदः । तदेवाह-न त्विति । रूपान्तरेण मुखोपस्थितेः सत्त्वादाह-मुखत्वेति । इष्टापत्तिं खण्डयति-अनुभव- श्चेति । स्वताद्रूप्यवदिति । चन्द्रताद्रूप्यवत्सदृशाभेदेत्यर्थः । तस्मिन्विषये । तस्य ताद्रू- प्यप्रत्ययस्य । केचिदित्यनेनारुचिः सूचिता । तद्बीजं तु स्वरूपसंवेदनकृतवैलक्षण्यस्यापि संभवेन तावत्पर्यन्तगमनं व्यर्थमिति । अत एव मतान्तरमाह-अन्ये त्विति । अ- पिर्मुखत्वसमुच्चायकः । रूपेणैवेत्यस्याभेदान्वयेत्यत्रान्वयः । उपस्थापितैरित्यस्य मुखत्वा. नामुखत्वादिभिरिति शेषः । ननु लक्षणाज्ञानकार्यतावच्छेदकं प्राचीनसंमतं प्रागुक्तमिति कथं तथा बोधोऽत आह-तत्पदेति । नन्वेवमपि तदुपस्थितिबोधयोः समानप्रकार- त्वनियमभङ्गोऽत आह-पदार्थोपेति । कल्पनाया आवश्यकतामाह-अत एवेति। अपिना समीपत्वसमुच्चयः । ननु प्रकृते फलाभावोऽत आह-प्रकृते त्विति । नन्वेवं प्राचीनविरोधः । ताद्रूप्यसंवेदनस्य फलत्वस्य तैरुक्तत्वादत आह-ताद्रूप्येति । तदसाधारणोति । विजातीयाह्लादकत्वेत्यर्थः । इत्थं चेति। रूपके तथा बोधे तथा फ-