पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १४७ भेदसंसर्गेण मुखादिशब्दोपस्थापितैर्मुखत्वादिविशिष्टैर्मुखादिभिरन्वयः । सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात् । ना- मार्थयोरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः । नन्वेवं सति बोधावैलक्षण्याञ्चन्द्रसदृशं मुखमित्युपमातो मुखं चन्द्र इति रूपकस्य कथं भेदः । न च सहशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति वाच्यम् । बोधस्य वैलक्षण्यमात्रेण पृथगलंकारताया असिद्धेः । अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसदृशमित्येतद्गतात्ष्टथगलंकारतापत्तिरिति चेत्, अत्र के- चित्-"रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽपि लक्षणा- फलीभूतताद्वप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च वि- षये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः । ननु लक्षणाप्र- योज्यादपि तत्सदृशवोधात्कथं नाम ताद्वप्यप्रत्ययः स्यात् । उपायस्या- भावाद्भेदज्ञानेन प्रतिबन्धाच्च । अन्यथा चन्द्रसदृशं मुखमित्यत्रापि तादूप्य- ननु गौरवात्सदृशरूपधर्मिलक्षणा न युक्ता अत आह-सादृश्येति । तेन सादृश्येन । न स्यात्कथमपि न स्यात् । अतिरिक्तेति । अभेदेन तु बाधान्नेति भावः । एवं सति धर्मिलक्षणयाभेदनान्वयाङ्गीकारे सति । धर्मलक्षणया व्युत्पत्तिसंकोचमङ्गीकृत्य भेदा- न्वये तु स्याद्वैलक्षण्यमिति भावः । बोधावैलेति । उपमायामप्यभेदेनैव बोधादिति भावः । सदृशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति । सदृशे विशेषणभूतो यश्चन्द्रस्तत्सं- बन्धतदसंबन्धाभ्यां संसर्गतया भासमानाभ्यामित्यर्थः । बोधवैलक्षण्यमिति शेषः । मुखं चन्द्र इत्यत्र चन्द्रपदस्य तत्सदृशे लाक्षणिकत्वेन तस्यैकपदार्थत्वात्संसर्गस्यापि लक्ष्यघ- टकतया चन्द्रसदृशयोः संबन्धस्य संसर्गविधयाभानम् । चन्द्रसदृशमित्यत्र तु तयो- भिन्नपदार्थत्वेन संसर्गस्य तत्त्वेन भानमावश्यकमेवेति भावः । अन्यथा बोधवैलक्षण्यमात्रे- णालंकारभेदाङ्गीकारे । मुखं चन्द्र इवेत्यत्रेति । इत्यस्यामुपमायामित्यर्थः । इवस्य द्योतकत्वेन रूपकरीत्या संसर्गस्य तत्त्वेनाभानात् । तादृश्यवाचकत्वेऽपि तेन सह प्रति- योगित्वं संबन्धः । चन्द्रसदृशमित्यत्र तु तत्प्रतियोगिकाश्रये लाक्षणिकतया अभेदस्य संबन्धत्वमिति स्पष्टं वैलक्षण्यम् । सदृशवाचकत्वेऽपि स्वप्रतियोगिकाश्रयत्वम् । चन्द्र इ- वेत्यत्र संबन्धः, तत्र तु स एवेति स्पष्टो भेद इति भावः । एतद्गतादिति । उपमालं. कारादिति शेषः । ताद्रूप्यसंवेदनमिति । ताद्रूप्यमात्रसंवेदनमित्यर्थः । एतेन भेदा- भेदोभयप्रधानोपमा असाधारणरूपेणोपमानोपमेययोर्भेदः । साधारणरूपेण त्वभेद इत्यलं- कारसर्वस्वकृदन्थविरोध इत्यपास्तम् । उपायस्येति । शक्तिलक्षणान्यतरस्येत्यर्थः । तत्रापि लक्षणास्तु, अत आह-भेदेति । अन्यथा तस्याप्रतिबन्धकत्वे । इत्यत्रापीति। उपमायामपि । ताद्रूप्येति । ताद्रूप्यमात्रेत्यर्थः । एवमुपायमुक्त्वा द्वितीयहेतु खण्डं-