पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ९५ ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात् । अतितृप्त्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम् ।

परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽमृया।

इमामेवासहनादिशब्दैर्व्यवहरन्ति ।

यथा-

'कुत्र शैवं धनुरिदं क्व चायं प्राकृतः शिशुः ।
भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः ॥'

एषा भनहरकार्मुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञामुक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः । प्राकृतशिशुपदगम्या निन्दानुभावः ।

'तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥'

अत्रापि यद्यपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामषेण शबलि-

व्यङ्गयेत्यादिः । परिपोषक इत्यनेन श्रमध्वनित्वं निरस्तम् । ननु तस्य तत्त्वे प्रकृते गौरवमत आह-श्रमेति । नन्वेवं सर्वत्र तत्सत्त्वेन विभावभेदोक्तिरयुक्तात आह-अतीति । प्राकृत इति । क्षत्रियोद्भव इत्यर्थः । तत्रत्यानां सीतापरिणयनार्थं जनकगृहे समागताना सदस्युपविष्टानाम् । शिशुपदेति । एतदुभयपदेत्यर्थः । तृष्णालोलेत्युदाहरणदाने बीजं कथयितुमाह-तृष्णेति । कलयतीत्यादि सत्सप्तम्यन्तम् । कलयति चन्द्रिकापानार्थ स्वीकुर्वति । चकोरव्रजे तत्समूहे । कुलं समूहः । धुन्वति टंकारयति । विधौ चन्द्रे । धाराधरेति । मेघाच्छादनमित्यर्थः । तदीयेति । धात्रीयेत्यर्थः । प्रकाशेत्यनेन तस्या वाच्यत्वं सूचितम् । वक्तुमिति । तथा चेदमप्यस्या उदाहरणमिति भावः । कार्यकारणयोस्तुल्यत्वादिति । असूयाकार्यकारणयोरिवामर्षकार्यकारणयोरपि विद्यमानत्वादित्यर्थः । असौ असूया प्रतीयत इत्यत्रान्वयः । एवव्यवच्छेद्यमाह-नेति।