पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः । यदाहु:- 'संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया ॥ अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ॥' इति । उदाहरणम्- 'निपतद्वाष्पसंरोधमुक्तचाञ्चल्यतारकम् । कदा नयननीलाब्जमालोकेय मृगीदृशः॥' अनार्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः । उदाहरणम्- 'लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ॥' एषा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतद्वयङ्गयस्थैर्याभावोऽनुभावः । न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम् । कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनो- द्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति । चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्या- र्थप्रतिसंधानविकला चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वतः परतक्ष्व जायते । यदाहुः- 'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ॥

निपतद्बाष्पसंरोधेन मुक्त्तचाश्चल्यास्तारका यस्येत्यर्थः । आलोकेय । लिङो रूपम् । उद्वे- गस्येवेति । उद्वेगावेगौ पर्यायौ । चिन्तोत्कण्ठेति । 'चिन्तोत्कर्ष' इति पाठान्त- रम् । इष्टानिष्टेति । प्रियानिष्टेत्यर्थः । तद्विव्जेति । जडताविभावा इत्यर्थः । रुजा