काम्बोजा इति ॥ काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम् ॥ "वीर्यं तेजःप्रभावयोः" इति हैमः ॥ सोढुमनीश्वरा अशक्ताः सन्तः । गजानामालानं बन्धनम् ।। भावे ल्युटि “ विभाषा लीयतेः" इत्यात्वम् ॥ तेन परिक्लिष्टैः परिक्षतैरक्षोटैर्वृक्षविशेषैः सार्धमानताः ।
तेषामिति ॥ तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम् ॥ “हिरण्यं द्रविणं द्युम्नम्" इत्यमरः ॥ राशय एवोपदा उपायनानि ॥ “उपायनमुपाग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसद्विविशुः ॥ “मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः" इत्यमरः॥ तथाप्युत्सेका गर्वास्तु न विविशुः । सत्यपि गर्वकारणे न जगर्वेत्यर्थः॥
ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः ।
वर्धयन्निव तत्कूटानु[३]ध्दूतैर्धातुरेणुभिः ॥७१॥
तत इति ॥ ततोऽनन्तरमश्वसाधनः सन्गौर्या गुरुं पितरं शैलं हिमवन्तम् । उद्धूतैरश्वखुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटांस्तस्य शृङ्गाणि ॥ "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ वर्धयन्निव । आरुरोह । उत्पल्द्धूलिदर्शनाद्गिरिशिखरवृद्धिभ्रमो जायत इति भावः ॥
शशंसेति ॥ तुल्यसत्त्वानां सैन्यैः समानबलानाम् । गुहासु शेरत इति गुहाशयास्तेषाम् ॥ “ अधिकरणे शेतेः" इत्यच्प्रत्ययः ॥ “दरी तु कन्दरो वास्त्री देवखातबिले गुहा" इत्यमरः ॥ सिंहानां हरीणाम् ।। "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्ष। केसरी हरिः" इत्यमरः ॥ संबन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनम् । कर्तृ । सैन्यघोषे सेनाकलकले संभ्रमकारणे सत्यप्यसंभ्रमयन्तः क्षोभविरहित्वम् ।। नञः प्रसज्यप्रतिषेधेऽपि समास इष्यते ॥ शशंस कथयामास ।
सैन्येभ्य इत्यार्थाल्लभ्यते ॥ बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः ॥ असंभ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति । न हि समबलः समबलाद्बिभेति भावः ॥