ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्त्रैरिवोदी[१]च्यानुद्धरिष्यन्रसानिव ॥६६॥
तत इति ॥ ततो रघुर्भास्वान्सूर्य इव शरैबाणैरुस्त्रैः किरणैरिव ॥ "किरणोस्रमयूखांशुगभस्तिघृणिघृष्णयः" इत्यमरः ॥ उदीच्यानुदग्भवान्नृपान्रसानुदकानीवोद्धरिष्यन्कौबेरीं कुबेरसंबन्धिनीं दिशमुदीचीं प्रतस्थे ॥ अनेकेनेव शब्देनेयमुपमा । यथाह दण्डी- “एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा" इति ॥
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः।
दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुङ्कुमकेसरान् ॥ ६७॥
विनीतेति ॥ सिन्धुर्नाम काश्मीरदेशेषु कश्चिनदविशेषः ॥ “देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्" इत्यमरः ॥ सिन्धोस्तीरे विचेष्टनैरङ्गपरिर्वतनैर्विनीताध्वश्रमास्तस्य रघोर्वाजिनोऽश्वा लग्नाः कुङ्कमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान् । यद्वा लग्नकुङ्कुमाः केसराः सटा येषां तान् ॥ अथ कुङ्कुमम् । काश्मीरजन्म" इत्यमरः ॥ “केसरो नागकेसरे । तुरंगसिंहयो स्कन्धकेशेषु बहुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्" इति हैमः ॥ स्कन्धान्कायान् ॥ स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च" इति हैमः ॥ दुधुवुः कम्पयन्ति स्म ॥
तत्र हू[२]णावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ६८॥
तत्रेति ॥ तत्रोदीच्यां दिशि भर्तृषु व्यक्तविक्रमम् । भर्तृवधेनस्फुटपराक्रममित्यर्थः । रघुचेष्टितं रघुव्यापारः । हूणा जनपदाख्याः क्षत्रियाः । तेषामवरोधा अन्तःपुरस्त्रियः । तासां कपोलेषु पाटलस्य पाटलिन्मस्ताडनादिकृतारुण्यस्यादेश्युपदेशकं बभूव ।। अथवा पाटल आदेश्यादेष्टा यस्य तद्भभूव । स्वयं लेख्याप्यत इत्यर्थः।
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः॥६९॥