क्षुर्वक्तुमिच्छुरस्मि ॥ तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह -अन्तरिति ॥ हि यतो भवान्प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति ॥ “ विदो लटो वा" इति णलादेशः॥ अतोऽहमभिधास्ये वक्ष्यामि ॥ वच इति प्रकृतं कर्म संबध्यते ॥ अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति । अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि । अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥
मान्य इति ॥ प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च "सिंहत्वमङ्कागतसत्त्ववृत्ति” (२।३८) इत्युक्तरूपम् ॥ तर्हि विसृज्य गम्यताम् । नेत्याह -गुरोरपीति॥ पुरस्तादग्रे नश्यदिदमाहिताग्नेर्गुरोर्धनमपि गोरूपमनुपेक्षणीयम् ॥ आहिताग्नेरिति विशेषणेनानुपेक्षाकारणं हविःसाधनत्वं सूचयति ॥
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा वि[१]सृज्यतां धेनुरियं महर्षेः ॥४५॥
स इति ॥ सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निवर्तयितुं संपादयितुं प्रसीद । दिनावसान उत्सुको माता समागमिष्यतीत्युत्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ॥
अथेति ॥ अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम् ।। "देवखातबिले गुहा । गह्वरम्" इत्यमरः॥ अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः। किंचिद्विहस्यार्थपतिं नृपं भूयो बभाषे ॥ हासकारणम् “अल्पस्य हेतोर्बहु हातुमिच्छन्” (२।४७ ) इति वक्ष्यमाणं द्रष्टव्यम् ।।
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हा[४]तुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥४७॥