स इति ॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति ॥ ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह--शस्त्रेणेति ॥ यद्रक्ष्यं धनं शस्त्रेणायुधेन ॥ "शस्त्रमायुधलोहयोः" इत्यमरः ॥ अशक्या रक्षा यस्य तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः । तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति ॥ अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥४१ ॥
इतीति ॥ पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्त्रः सन्नात्मनि विषयेऽवज्ञामपमानं शिथिलीचकार । तत्याजेत्यर्थः । अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः ॥ समानेषु हि क्षत्रियाणामभिमानः । न सर्वेश्वरं प्रतीति भावः ॥
प्रतीति ॥ स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिंस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः । अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् ॥ "दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि" इति हलायुधः ॥ त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः । तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः । वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः ॥ "प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्" इति पाणेः सप्तम्यन्तस्योत्तरनिपातः ॥ स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीच्च ॥ "बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः" इति महाभारते ॥
संरुद्धेति ॥ हे मृगेन्द्र । संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचो वाक्यं कामं हास्यं परिहसनीयम् । यद्वचः "सत्वं मदीयेन" (२।४५) इत्यादिकमहं विव