अहीनगुरिति ॥ अहीनबाहुद्रविणः समग्रभुजपराक्रमः ॥ “द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः" इति विश्वः ॥ हीनसंसर्गपराङ्मुखन्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाऽप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ॥
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५॥
गुरोरिति ॥ पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्च गुरोः पितुरनन्तरम् । अवतीर्णो भुवं प्राप्त आद्यः पुमान्विष्णुरिव । अस्खलितैरप्रतिहतैश्चतुरुपक्रमैः सामाद्युपायैः ॥ “ सामादिभिरुपक्रमैः” इति मनुः ॥ चतुर्दिगीशश्चतसृणां दिशामीशो वभूव ॥
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ।।१६
तस्मिन्निति ॥ अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति । उच्चैःशिरस्त्रादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्रं पारियात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ।
तस्येति ॥ तस्य पारियात्रस्योदारशीलो महावृत्तः ॥ “शीलं स्वभावे सद्वृत्त्ते" इत्ममरः ॥ शिलापट्टविशालवक्षाः शिलः शिलाख्यः सूनुरभवत् । यः सूनुः शिलीमुखैर्बाणैः ॥ “अलिबाणौ शिलीमुखौ " इत्यमरः ॥ जितारिपक्षोऽपीड्यमानः स्तूयमानः सन् । शालीनतामधृष्टतां लज्जामव्रजदगच्छत् । " स्यादधृष्टे तु शाली- नः" इत्यमरः॥ “शालीनकौपीने अधृष्टाकार्ययोः" इति निपातः ॥
तमिति ॥ अनिन्दितात्मागर्हितस्वभावः स पारियात्र आत्मसंपन्नं बुद्धिसम्पन्नम्। "आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च" इत्युभयत्राप्यमरः ॥ युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त । न त्वकृत्वेत्येवकारार्थः। किमर्थं युव-
१६-१७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-- तस्माद्बभूवाथ दलाभिधानो दयान्वितः पद्मदलाक्षदृष्टिः।
कुन्दावदातो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैरिवेन्दुः॥