पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३६५ )
अष्टादशः सर्गः ।

  तस्यानलौजास्तनयस्तदन्ते वंशश्रियं पाप नलाभिधानः।
  यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः॥५॥

 तस्येति ॥ अनलौजा नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप । नलिनाभवक्त्रः यो नलः । गजो नड्वलानि नडप्रायस्थलानीव ॥ “नडशदाड्वलच्” इति ड्वलच्प्रत्ययः ॥ परेषां वलान्यमृद्गान्ममर्द ॥

  नभश्चरैर्गीतयशाःस लेभे नभस्तलश्यामतनुं तनूजम् ।
  ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥६

 नभ इति॥ नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभ:शब्दमयेन नाम्ना ख्यातम् । नभःशब्दसंज्ञकमिसर्थः । नभोमासमिव श्रावणमासमिव । प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ॥

  [१]स्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्त[२]त्प्रभवे प्रभुत्वम् ।
  मृगैर[३]जर्यं जरसोपदिष्टमदेहबन्धाय पु[४]नर्बबन्ध ॥७॥

तस्या इति ॥धर्मोत्तरो धर्मप्रधानः स नलः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम् । वार्धके चिकीर्षितमित्यर्थः । मृगैरजर्यं तैः सह संगतम् ॥ "अजर्यं संगतम्" इति निपातः॥ पुनरदेहबन्धाय पुनर्देहसंबन्धनिवृत्तये बबन्ध । मोक्षार्थं वनं गत इत्यर्थः । अदेहबन्धायेत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥

  तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽ[५]पुण्डरीकः ।
  शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रि[६]ता श्रीः॥८॥

 तेनेति ॥ तेन नभसा । द्विपानां पुण्डरीको दिग्गजविशेष इव । राज्ञामजय्यो जेतुमशक्यः॥"क्षय्यजय्यौ शक्यार्थे” इति निपातनात्साधुः॥ पुण्डरीकः पुण्डरीकाख्यः पुत्रोऽजनि जनितः। पितरि शान्ते स्वर्गते सति । आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीर्यं पुण्डरीकं पुण्डरीकाख्यं विष्णुमिव । श्रिता ॥

  स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानद[७]क्षम् ।
  क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपःक्षा[८]न्ततरश्च[९]चार ॥ ९॥

 स इति ॥ अमोघं धनुर्यस्य सोऽमोघधन्वा ॥ “धनुषश्च" इत्यनादेशः


  1. तस्मिन्.
  2. तप्रभवः; स प्रभवः; तत्प्रभवः.
  3. अजयें.
  4. मनः.
  5. आहितपुण्डरीकम् ;
    आहितपुण्डरीक्षम्.
  6. आश्रिता.
  7. दत्तम्
  8. क्षामतनुः.
  9. चकार.