स्तूयमान इति ॥ स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव स्तूयमानः सन् । जिह्राय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो देष्टीति तत्कारिद्वेषिणस्तस्य राज्ञो यशो ववृधे ॥ " गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्" इति भावः॥
दुरितामिति ॥ स राजा । उदितः सूर्य इव । दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते-" अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः" इति ॥ तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन प्रकाशनेन च तमोऽज्ञानं ध्वान्तं च नुदञ्शश्वत्प्रजाः स्वतंत्रयांचक्रे स्वाधीनाश्चकार।।
इन्दोर[४]गतयः पद्मे सूर्यस्य कुमुदेंऽशवः।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५॥
इन्दोरिति ॥ इन्दोरंशवः पद्मेऽगतयः । प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः । गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे पापुः॥
परेति ॥ अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजयरूपं यद्यपि पराभिसंधानपरं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव ॥ “ धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ बभूव ॥ “ मन्त्रप्रभावोत्साहशक्तिभिः परान्संदध्यात्" इति कौटिल्यः॥
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां रा[८]ज्ञां राजा बभूव सः॥७७॥
एवमिति ॥ एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्डजेन तेजसा । “स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्" इत्यमरः ॥ उद्यन्नुद्युञ्जानः सः। वृषा वासवो देवानां देवो देवदेव इव । राज्ञां राजा राजराजो बभूव।।
पञ्चमं लोकपालानामू[९]चुः साधर्म्ययोगतः।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ ७८॥