इतीति ॥ इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् ॥ “योनौ जलावतारे च मन्त्र्यायष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् इति हलायुधः ॥ तस्या नीतेः फलमप्रतीघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । “मन्त्रादिषु यमुद्दिश्य य उपायः प्रयुज्यते । स तस्य फलति" इत्यर्थः।।
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वी[१]रगामिनी ॥ ६९ ॥
कूटेति ॥ कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञेऽपि सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे॥“कान्तार्थिनी तु या याति संकेतं साभिसारिका" इत्यमरः ॥ जयश्रीस्तमन्विष्यागच्छदित्यर्थः।।
प्राय इति ॥ अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः । गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव । प्रायः प्रायेण रणो दुर्लभः ॥ खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः।
स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥७१॥
प्रवृद्धाविति ॥ प्रवृद्धौ सत्यां चन्द्रो हीयते । समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते ॥ प्रवृद्धः" इति वा पाठः ॥ स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी ॥ "जिदृक्षि-" इत्यादिनेनिप्रत्ययः ॥ नाभूत् ॥
सन्त इति ॥ अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् । उदधेरभिगमनाज्जीमूता इव । दातृत्वं प्रापुः॥ अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।।