पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३५५ )
सप्तदशः सर्गः ।

  यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
  सोऽभूद्भग्नव्रतः शत्रूनु[१]द्धृत्य प्रतिरोपयन् ॥ ४२ ॥

यदिति ॥ सोऽतिथिर्यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्यानृतं नाभूत् । यद्वस्तु ददौ तन्न जहार न पुनराददे ॥ किंतु शत्रूनुद्धृत्योत्खाय प्रतिरोपयन्पुनः स्थापयन्भग्नव्रतो भग्ननियमोऽभूत् ॥

  वयोरूपविभूतीनामेकैकं मदकारणम् ।
  तानि तस्मिन्स[२]मस्तानि न त[३]स्योत्सि<ref>उत्सिषिचुः<ref>
षिचे मनः॥४३॥

 वय इति ॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः । तानि मदकारणानि तस्मिन्राज्ञि समस्तानि । मिलितानीति शेपः । तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व ॥ सिञ्चतेः स्वरितेत्त्वादात्मनेपदम् । अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वान्मदशब्देन गर्वो लक्ष्यत इत्याहुः । उक्तं च- “ऐश्वर्यरूपतारुण्यकुलविद्यावलैरपि । इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः । मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः "इति। अतएव कविनापि “ उत्सिषिचे" इत्युक्तं नतु " उन्ममाद" इति ॥

इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद्दृ[४]ढ्अमूल इव द्रुमः ॥ ४४ ॥

 इत्थमिति ॥ इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासु सतीषु स राजा नवोऽपि । दृढमूलो द्रुम इव । अक्षोभ्योऽप्रधृष्य आसीत् ॥

  अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते य[५]तः।
  अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून् ॥ ४५॥

 अनित्या इति॥यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः। द्विषन्ति स्निह्यन्ति चेत्यर्थः। किंच ते वाह्या विप्रकृष्टा दूरस्थाश्च । अतः सोऽभ्यन्तरानन्तर्वतिनो नित्याञ्षड्रिपून्कामक्रोधादीन्पूर्वमजनयत् । अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ।।

  प्र[६]सादाभिमुखे तस्मिंश्चपलापि स्वभावतः।
  निकषे हेम[७]रेखेव श्रीरासीदनपायिनी ॥ ४६॥

 प्रसादेति ॥ स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे।

निकषे निकषोपले हेमरेखेव । अनपायिनी स्थिरासीत् ॥


  1. उत्खाय.
  2. समेतानि.
  3. चास्य.
  4. बद्धमूलः.
  5. सदा.
  6. प्रसादसुमुखे
    ममादविमुखे.
  7. हेमलेखा.