पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३५१ )
सप्तदशः सर्गः ।

  ते[१]ऽस्य मु[२]क्तागुणोन्नद्धं मौलिम[३]न्तर्गतस्रजम् ।
  प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभि[४]ना ॥ २३ ॥

 त इति ॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिलं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्युपुः प्रत्युप्तं चक्रुः ॥

  चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
  समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥ २४ ॥

 चन्दनेनेति ॥ किंच । मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥

  आमुक्ताभरणः स्रग्वी हंसचिह्नदु[५]कूलवान् ।
  आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ २५ ॥

 आमुक्तेति ॥ आमुक्ताभरण आसञ्जिताभरणः । स्रजोऽस्य सन्तीति स्रग्वी ॥ "अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः ॥ हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान् ॥ अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् ॥ राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा ॥ "वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः" इति विश्वः ॥ सोऽतिथिरतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥

  नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
  विरराजोदिते सूर्ये मे[६]रौ कल्पतरोरिव ॥ २६ ॥

 नेपथ्येति ॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम् । उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव । विरराज ॥ तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ॥

  स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
  ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥

 स इति ॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि ॥ "प्राधान्ये

राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम्" इत्यमरः ॥ तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः ॥ "आलोको जयशब्दः स्यात्" इति


  1. तस्य.
  2. मुक्तागुणानद्धम्.
  3. अभ्यन्तरस्रजम्.
  4. वर्धिना; बन्धिना.
  5. दुकुलभाक्; दुकूलभृत्.
  6. नवे.