सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४७ )
सप्तदशः सर्गः ।

  स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
  अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ २ ॥

 स इति ॥ पितृमान् ॥ प्रशंसार्थे मतुप् ॥ सुशिक्षित इत्यर्थः ॥ अनुपमद्युतिः सवितुश्चेदं विशेषणम् । सोऽतिथिः पितुः कुशस्य मातुः कुमुद्वत्याश्च वंशम् । सवितोत्तरदक्षिणावुभौ मार्गाविव । अपुनात्पवित्रीकृतवान् ॥

  तमादौ कुलविद्यानामर्थमर्थविदां वरः।
  पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ ३ ॥

 तमिति ॥ अर्थाच्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः । तेषां वरः श्रेष्ठः पिता कुशस्तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षि कीत्रयीवार्तादण्डनीतीनामर्थमभिधेयमग्राहयदबोधयत् । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्स्वीकारितवान् । उदवाहयदित्यर्थः ॥ ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वमस्तीत्युक्तं प्राक् ॥

  जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः।
  अमन्यतैकमात्मानमनेकं वशिना वशी ॥४॥

 जात्य इति ॥ जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन ।। "अभिजातः कुलीनः स्यात्" इत्यमरः ।। शौर्यवता वशिना तेनातिथिना। करणेन ॥ एकमात्मानम् । एको न भवतीत्यनेकस्तम् । अमन्यत ॥ सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः॥

  स कुलोचितमिन्द्रस्य सा[]हायकमुपेयिवान् ।
  जघान समरे दैत्यं दुर्जयं तेन चा[]वधि ॥५॥

 स इति ॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम् ॥ “योपधात्-" इत्यादिना वुञ् ॥ उपेयिवान्प्राप्तः सन्समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत् । तेन दैत्येनावधि हतश्च ॥ "लुङि च" इति हनो वधादेशः॥

  तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती।
  अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥ ६ ॥

 तमिति ॥ कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी । कुमुदानन्दं शशाङ्क कौमुदी ज्योत्स्नेव । तं कुशमन्वगात् ॥ कुशस्तु । कुः पृथ्वी । तस्या मुत्प्रीतिः

। सैवानन्दो यस्येति कुमुदानन्दः । परानन्देन स्वयमानन्दतीत्यर्थः ।।


  1. सहायिकम,
  2. सः.