पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४६ )
रघुवंशे

पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन्दिव्यस्तूर्यध्वनिरुदचरदुत्थितः । तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि॥ जात्यभिप्रायेणैकवचनम् ॥ ववृषुः॥ आश्चर्यशब्दस्य "रौद्रं तूग्रममी त्रिषु । चतुर्दश" इत्यमरवचनात्त्रिलिङ्गत्वम् ॥

  इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
   लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
  एकः शङ्कां पि[१]तृवधरिपोरत्यजद्वैनतेया-
   च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ ८८॥

 इत्थमिति ॥ इत्थं नागः कुमुदः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ "तद्धितार्थ-" इत्यादिना तत्पुरुषः ॥ “अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम् ॥" पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः" इत्यमरः ॥ तस्य गुरू रामः। तस्यौरसं धर्मपत्नीजं पुत्रम् ॥ "औरसो धर्मपत्नीजः" इति याज्ञवल्क्यः ।। मैथिलेयं कुशं बन्धुं लब्ध्वा । कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा । एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोर्वैनतेयाद्गरुडात् ॥ गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः ॥ शङ्कां भयमत्यजत् । अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमतएव पौरकान्तः पौरप्रियः सन्छशास ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
कुमद्वतीपरिणयो नाम षोडशः सर्गः ।


सप्तदशः सर्गः।

    नमो रामपदाम्भोजं रेणवो यत्र संततम् ।
    कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥

  अतिथिं नाम काकुत्स्थात्पुत्रं प्रा[२]प कुमुद्वती।
  पश्चिमाद्यमिनीयामात्प्रसादमिव चेतना ॥१॥

 अतिथिमिति ॥ कुमुद्वती काकुत्स्थात्कुशादतिथिं नाम पुत्रम् । चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रेर्यामात्प्रहरात् ॥ "द्वौ यामप्रहरौ समौ" इत्यमरः ॥ प्रसादं वैशद्यमिव । प्राप । ब्राह्मे सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः॥


  1. विषधररिपोः; अहिकुलरिपोः.
  2. आप.