पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४१ )
षोडशः सर्गः ।

एव कलापा भूषाः॥"कलापो भूषणे बर्हे" इत्यमरः॥मौनम् । निःशब्दतामित्यर्थः। भजन्ते॥

  एताः करोत्पीडितवा[१]रिधारा द[२]र्पात्सखीभिर्वदनेषु सिक्ताः।
  वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥

 एता इति ॥ दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृज्वग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।

  [३]द्बन्धकेशश्र्युतपत्रलेखो विश्लेषिमुक्ताफलप[४]त्रवेष्टः ।
  मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः॥६७॥

 उद्बन्धेति॥ उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः। च्युतपत्रलेखः क्षतपत्ररचनः । विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताडङ्का यस्मिन्सः । एवमम्भोविहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव ॥ "रम्याणां विकृतिरपि श्रियं तनोति" इनि भावः ॥

  स नौविमानादवतीर्य रेमे वि[५]लोलहारः सह ताभिरप्सु ।
  स्क[६]न्धावलग्नोद्दृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥६८॥

 स इति ॥ स कुशो नौर्विमानमिव नौविमानम् ॥ उपमितसमासः ॥ तस्मादवतीर्य विलोलहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सहस्कन्धावलग्नोदृतपद्मन्युत्पाटितनलिनी यस्य स तथोक्तः सन् ॥ "नद्यृतश्च" इति कप्रत्ययः ॥ वन्यो द्विपेन्द्र इव । अप्सु रेमे ॥

  ततो नृपेणा[७]नुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः ।
  प्रागेव मुक्ता नयनाभिरामाः प्राप्ये[८]न्द्रनीलं किमुतोन्मयूखम् ६९

  तत इति ॥ ततो भ्राजिष्णुना प्रकाशनशीलेन ॥ “भुवश्च" इति चकारादिष्णुच् ॥ नृपेणानुगताः संगतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव । इन्द्रनीलयोगात्पूर्वमेव । केवला अपीत्यर्थः। मुक्ता मणयो नयनाभिरामाः ।

उन्मयूखमिन्द्रनीलं प्राप्य किमुत । अभिरामा इति किमु वक्तव्यमित्यर्थः ॥


  1. गन्धधारम्.
  2. आरात्; हर्षात्.
  3. उद्बद्धकेशः.
  4. जालशोभः; कर्णवेष्ट:.
  5. विलोलमाल;
    बिलोलमाल्यः.
  6. स्कन्धावलग्नोद्दृतपद्मिणीकः; स्कन्धावलग्न्नोन्नतपद्मिनीकः.
  7. अधिगता; अभिगताः.
  8. उन्मयूषं किमुतेन्द्रनीलम्.