पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४० )
रघुवंशे

प्रसवा एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलिप्रियान् ॥ "जलनीली तु शैवालम्" इत्यमरः ॥ मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥

  आसां ज[१]लास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
  पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः॥६२

 आसामिति ॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन्हारोऽतएव छिदुरः स्वयं छिन्नोऽपि न संलक्ष्यते । “ विदिभिदिच्छिदेः कुरच्” इति कुरच्प्रत्ययः ॥ शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः॥

  आवर्तशोभा नतनाभिकान्तेर्भङ्गो[२]ध्रुवां द्वन्द्वचराः स्तनानाम् ।
  जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम्॥६३

 आवर्तेति ॥ विलासिनीनां विलसनशीलानां स्त्रीणाम् ॥"वौ कषलसकत्थस्रम्भः" इति घिनुष्प्रत्ययः॥ रूपावयवानामुपमेयानां यान्युपमानानि लोकासिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह- नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्वशोभा ॥ " स्यादावर्तोऽम्भसा भ्रमः इत्यमरः ॥ध्रुवां भङ्गस्तरंगः । स्तनानां द्वन्द्वचराश्चक्रवाकाः । उपमानमिति सर्वत्र संबध्यते॥

  तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् ।
  श्रोत्रेषु संमू[३]र्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥६४॥

 तीरेति॥ उत्कलापैरुच्चबर्हैः अस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैबर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां संबन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥

  संदृष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडु[४] तुल्याः।
  [५]मी जलापूरितसूत्रमार्गा मौनं भजन्ते र[६]शनाकलापाः॥६५॥

 संदष्टेति ॥ संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नयान्तरितान्यातानि यान्युडूनि नक्षत्राणि तत्तुल्याः।

मुक्तामयत्वादिति भावः । अमी जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना


  1. करास्फालन.
  2. भङ्गाः; भङ्ग्यः.
  3. मूर्छत्यनुरक्तम्.
  4. उडुकल्पाः.
  5. आसाम्.
  6. रसना.