मनोज्ञेति ॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते । सहकारभङ्गं चूतपल्लवखण्डम् । पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वैक्षुरसप्रकृतिकः सुराविशेषस्तम् ॥ "शीङो धुक्" इत्युणादिसूत्रेण “ शीङ् स्वप्ने ” इत्यस्माद्धातोर्धुक्प्रत्ययः । “पक्वैरिक्षुरसैरस्त्री शीधुः पक्वरसः शिवः" इति यादवः॥ नवं पाटालायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदाघावधिना ग्रीष्मकालेन ॥ "अवधिस्ववधाने स्यात्सीम्नि काले बिलेऽपि च" इति विश्वः॥ कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमष्टाः परिहृताः॥
जनस्येति ॥ तस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषं सातिशयं यथा तथा कान्तो बभूवतुः । कौ द्वौ । तापापनोदे क्षमा योग्या पादयोरङ्घ्र्योः पादानां रश्मीनां च सेवा ययोस्तावुदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥५४॥
अथेति॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिस्तस्मिन् ॥ “लोलश्चलसतृष्णयोः” इत्यमरः॥ रोधोलतापुष्पाणां वहे प्रापके ॥ पचाद्यच् ॥ ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य । वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ।।
स तीरभूमौ विहि[४] तोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥
स इति ॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः॥"जालमानायः" इति निपातः ॥ आनायः पुंसि जालं स्यात्" इत्यमरः ॥ तैरपकृष्टनक्रामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे ॥ अत्र कामन्दक: " परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्त- सैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः इति ॥
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदाभिरासीदु[५] द्विग्नहंसा सरिदङ्गनाभिः॥ ५६ ॥
सेति॥सा सरित्सरयूस्तीरसोपानपथैनावतारादवतरणादन्योन्यं केयूरविघट्टि-